०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रातरग्निः’ इति पञ्चर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका - प्रातर्मृक्तवाहा द्वितः’ इति । मृक्तवाहा इति विशेषणविशिष्ट आत्रेयो द्वित ऋषिः। ‘ पङ्क्त्यन्तं हि ’ इति हिशब्दादस्यापि सूक्तस्य पञ्चमी पङ्क्तिः । पङ्क्त्यन्तपरिभाषया शिष्टा अनुष्टभः । उक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ॥

Jamison Brereton

18 (372)
Agni
Mr̥ktavāhas Dvita Ātreya
5 verses: anuṣṭubh, except paṅkti 5
This hymn is a dānastuti, a praise of generous patrons. Renou calls it a dānastuti for the whole preceding sequence of hymns. Dvita, who calls himself, perhaps jokingly, mr̥ktávāhas “him of the broken vehicle,” summons Agni to reward Dvita’s patrons. Agni should give them fame, although this fame is also partly and directly created by the hymn itself. They deserve this reward because they have generously given Dvita a gift of many horses (vss. 3, 5). The hymn praises Dvita as well, if indirectly, when it mentions the “brilliant insight” of the singer (vs. 4), which because of him exists among the patrons.

01 प्रातरग्निः पुरुप्रियो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रात᳓र् अग्निः᳓ पुरुप्रियो᳓
विश᳓ स्तवेत अ᳓तिथिः
वि᳓श्वानि यो᳓ अ᳓मर्तियो
हव्या᳓ म᳓र्तेषु र᳓ण्यति

02 द्विताय मृक्तवाहसे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्विता᳓य मृक्त᳓वाहसे
स्व᳓स्य द᳓क्षस्य मंह᳓ना
इ᳓न्दुं स᳓ धत्त आनुष᳓क्
स्तोता᳓ चित् ते अमर्तिय

03 तं वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वो दीर्घा᳓युशोचिषं
गिरा᳓ हुवे मघो᳓ना᳐म्
अ᳓रिष्टो ये᳓षां᳐ र᳓थो
वि᳓ अश्वदावन् ई᳓यते

04 चित्रा वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चित्रा᳓ वा ये᳓षु दी᳓धितिर्
आस᳓न्न् उक्था᳓ पा᳐᳓न्ति ये᳓
स्तीर्ण᳓म् बर्हिः᳓ सु᳓वर्णरे
श्र᳓वांसि दधिरे प᳓रि

05 ये मे - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ मे पञ्चाश᳓तं ददु᳓र्
अ᳓श्वानां᳐ सध᳓स्तुति
द्युम᳓द् अग्ने म᳓हि श्र᳓वो
बृह᳓त् कृधि मघो᳓नां᳐
नृव᳓द् अमृत नॄणा᳐᳓म्+