०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ यज्ञैः’ इति पञ्चर्चं तृतीयं सूक्तमात्रेयस्य पूरोरार्षमाग्नेयम् । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । ‘आ यज्ञैः’ इत्यनुक्रमणिका । अन्त्यावर्जं प्रातरनुवाकाश्विनशस्त्रयोः ‘ बृहद्वयः’ इत्यादिदशसूक्तमध्ये विनियोग उक्तः ॥

Jamison Brereton

17 (371)
Agni
Pūru Ātreya
5 verses: anuṣṭubh, except paṅkti 5
A striking image in this hymn is that of the mouth—the mouth of Agni, who receives the offerings, and the mouth of the priest, who recites the hymns. The poet associates or even identifies these mouths in verse 2 by using ásya “of this one,” to refer to either Agni or the priest, and in verse 5, where the mouth is equally that of Agni and that of the priest. The poet insists on these two mouths because they are the means by which the patron of the sacrifice can think himself glorious (vs. 2). In verse 3, however, the poet refers only to the mouth of Agni and shifts to a sexual image. The “thrust” could be the thrust of the poet’s song or it could be the thrust of the fire-churning. Because it carries a sexual connotation, line c then describes the semen of Agni that gives birth to lofty flames.

01 आ यज्ञैर्देव - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यज्ञइ᳓र् देव म᳓र्तिय
इत्था᳓ त᳓व्यांसम् ऊत᳓ये
अग्निं᳓ कृते᳓ सुअध्वरे᳓
पूरु᳓र् ईळीत अ᳓वसे

02 अस्य हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्य हि᳓ स्व᳓यशस्तर
आसा᳓ विधर्मन् म᳓न्यसे
तं᳓ ना᳓कं चित्र᳓शोचिषम्
मन्द्र᳓म् परो᳓ मनीष᳓या

03 अस्य वासा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ वा᳓सा᳓ उ अर्चि᳓षा
य᳓ आ᳓युक्त तुजा᳓ गिरा᳓
दिवो᳓ न᳓ य᳓स्य रे᳓तसा
बृह᳓च् छो᳓चन्ति अर्च᳓यः

04 अस्य क्रत्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ क्र᳓त्वा वि᳓चेतसो
दस्म᳓स्य व᳓सु र᳓थ आ᳓
अ᳓धा वि᳓श्वासु ह᳓वियो
अग्नि᳓र् विक्षु᳓ प्र᳓ शस्यते

05 नू न - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ न इ᳓द् धि᳓ वा᳓रियम्
आसा᳓ सचन्त सूर᳓यः
ऊ᳓र्जो नपाद् अभि᳓ष्टये
पाहि᳓ शग्धि᳓ सुअस्त᳓य
उतइ᳓धि पृत्सु᳓ नो वृधे᳓