०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

बृहद्वयः’ इति पञ्चर्चं द्वितीयं सूक्तमात्रेयस्य पूरोरार्षम् । अन्त्या पङ्क्तिः शिष्टा अनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं - बृहत्पूरुः पङ्क्त्यन्तं हि ’ इति । प्रातरनुवाके आग्नेये क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चेदमादीनि दश सूक्तानि चतुर्थनवमवर्जितानि । आदितस्त्रिषु सूक्तेष्वन्त्यामुद्धरेत् । तथा च सूत्रितं– बृहद्वय इति दशानां चतुर्थनवमे उद्धरेदुत्तमामुत्तमां चादितस्त्रयाणाम् । ( आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

16 (370)
Agni
Pūru Ātreya
5 verses: anuṣṭubh, except paṅkti 5
This and the following hymn are attributed to the same poet, and indeed the two hymns show many parallels: they have the same meter and the same number of verses, and their concluding pāda is identical. Geldner notes that this hymn, like many of the Agni hymns of this maṇḍala, uses rare and affected expressions. Certainly the syntax in this hymn is challenging, especially in verses 3–4, whose complex construction marks the climax of the hymn. The two verses describe the point at which Agni is burning most brightly. At that moment he has become the powerful ally and benefactor of the sacrificers, and at that moment Agni shines beyond both heaven and earth.
Both in these verses and elsewhere in the hymn the poet emphasizes the alliance among Agni, the priests, and their patrons. In verse 1, for example, the expression mitráṃ ná compares Agni to Mitra, the god of alliances, and simultaneously com pares him to a mitrá, an ally. The first is the primary sense, as it is elsewhere, here especially because the hymn refers to Bhaga, another of the Ādityas, in verse 2.

01 बृहद्वयो हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓द् व᳓यो हि᳓ भान᳓वे
अ᳓र्चा देवा᳓य अग्न᳓ये
य᳓म् मित्रं᳓ न᳓ प्र᳓शस्तिभिर्
म᳓र्तासो दधिरे᳓ पुरः᳓

02 स हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ द्यु᳓भिर् ज᳓नानां᳐
हो᳓ता द᳓क्षस्य बाहुवोः᳓
वि᳓ हव्य᳓म् अग्नि᳓र् आनुष᳓ग्
भ᳓गो न᳓ वा᳓रम् ऋण्वति

03 अस्य स्तोमे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ स्तो᳓मे मघो᳐᳓नः
सखिये᳓ वृद्ध᳓शोचिषः
वि᳓श्वा य᳓स्मिन् तुविष्व᳓णि
स᳓म् अर्ये᳓ शु᳓ष्मम् आदधुः᳓

04 अधा ह्यग्न - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा हि᳓ अग्न एषां᳐
सुवी᳓रियस्य मंह᳓ना
त᳓म् इ᳓द् यह्वं᳓ न᳓ रो᳓दसी
प᳓रि श्र᳓वो बभूवतुः

05 नू न - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ न ए᳓हि वा᳓रियम्
अ᳓ग्ने गृणान᳓ आ᳓ भर
ये᳓ वयं᳓ ये᳓ च सूर᳓यः
सुअस्ति᳓ धा᳓महे स᳓चा
उतइ᳓धि पृत्सु᳓ नो वृधे᳓