०१३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अर्चन्तस्त्वा’ इति षड़ृचं त्रयोदशं सूक्तं सुतंभरस्यार्षं गायत्रमाग्नेयम् । अनुक्रान्तं च – ‘ अर्चन्तो गायत्रं तु’ इति । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि आश्विनशस्त्रे इदमादिके द्वे सूक्ते । सूत्रितं च - अर्चन्तस्त्वेति सूक्ते’ ( आश्व. श्रौ. ४. १३) इति । आहवनीयोपस्थाने “त्वमग्ने सप्रथा असि ’ इत्येका । सूत्रितं च - ‘ सं नः सृज सुमत्या वाजवत्या त्वमग्ने सप्रथा असीति च ’ ( आश्व. श्रौ. ३. १० ) इति । अश्वमेधे पौष्णेष्टौ ‘ त्वमग्ने सप्रथाः ’ इति प्रथमाज्यभागानुवाक्या । ‘त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वन्तौ ’ ( आश्व. श्रौ. १०. ६ ) इति ।।

Jamison Brereton

13 (367)
Agni
Sutambhara Ātreya
6 verses: gāyatrī
Like the previous hymn, which is also attributed to Sutambhara, this hymn empha sizes the praise song offered to Agni, which causes Agni to grow and to perform the sacrifice as the Hotar. The course of the hymn follows that growth of Agni. In verse 1 the sacrificers are just beginning to kindle Agni. He then spreads wide (vs. 4) and is made strong (vs. 5), until finally, in the last verse, he encompasses the gods.

01 अर्चन्तस्त्वा हवामहेऽर्चन्तः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्चन्तस् त्वा हवामहे
अ᳓र्चन्तः स᳓म् इधीमहि
अ᳓ग्ने अ᳓र्चन्त ऊत᳓ये

02 अग्ने स्तोमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने᳓ स्तो᳓मम् मनामहे
सिध्र᳓म् अद्य᳓ दिविस्पृ᳓शः
देव᳓स्य द्रविणस्य᳓वः

03 अग्निर्जुषत नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् जुषत नो गि᳓रो
हो᳓ता यो᳓ मा᳓नुषेषु आ᳓
स᳓ यक्षद् दइ᳓वियं ज᳓नम्

04 त्वमग्ने सप्रथा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् अग्ने सप्र᳓था असि
जु᳓ष्टो हो᳓ता व᳓रेणियः
त्व᳓या यज्ञं᳓ वि᳓ तन्वते

05 त्वामग्ने वाजसातमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा᳓म् अग्ने वाज-सा᳓तमं+++(←सन् दाने?)+++
वि᳓प्रा वर्धन्ति सु᳓-ष्टुतम् ।
स᳓ नो रास्व सुवी᳓र्यम् ॥

06 अग्ने नेमिरराँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने नेमि᳓र् अराँ᳓ इव
देवां᳓स् त्व᳓म् परिभू᳓र् असि
आ᳓ रा᳓धश् चित्र᳓म् ऋञ्जसे