०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्राग्नये बृहते ’ इति षडृचं द्वादशं सूक्तं सुतंभरस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ प्राग्नये’ इत्यनुक्रान्तम् । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तं विनियुक्तम् । सूत्रितं च– ‘ प्राग्नये बृहते प्र वेधसे कवये’ (आश्व. श्रौ. ४. १३) इति ॥

Jamison Brereton

12 (366)
Agni
Sutambhara Ātreya
6 verses: triṣṭubh
The hymn repeatedly asserts that the poet is speaking the truth (r̥tá), and therefore, since Agni himself speaks the truth (vs. 3) and attends to the truth (vs. 2), he should attend to the poet and grant his wishes. In verse 5 the poet contrasts himself and his truth-speaking with those who were apparently once his allies, whose words and whose attacks against him are now twisted and false. The questions in 4bcd are ironic, for in fact Agni offers no protection to a lying cheat. Pāda 4a might also be taken ironically or not: the bonds (bándhana) could be the bonds of friendship with Agni—in its other two R̥gvedic attestations the word means “connection” in a neutral or positive sense—or they could be the fetters that the poet clearly hopes are the cheat’s reward.

01 प्राग्नये बृहते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।
घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥

02 ऋतं चिकित्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।
नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥

03 कया नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑ ।
वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥

04 के ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

के ते॑ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ ।
के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥

05 सखायस्ते विषुणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन् ।
अधू॑र्षत स्व॒यमे॒ते वचो॑भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ॥

06 यस्ते अग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑ ।
तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥