००९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

पञ्चमे मण्डले प्रथमेऽनुवाके पूर्वमष्टौ सूक्तानि व्याख्यातानि । ‘त्वामग्ने हविष्मन्तः’ इति सप्तर्चं नवमं सूक्तम् आत्रेयस्य गयस्यार्षम् । सप्तमीपञ्चम्यौ पङ्क्ती शिष्टाः अनुष्टुभः । अग्निर्देवता । तथा चानुक्रम्यते – त्वामग्ने गयोऽन्त्यापञ्चम्यौ पङ्क्ती ’ इति । प्रातरनुवाके आश्विनशस्त्रे च एतदादिके द्वे सूक्ते शंसनीये । तथैव सूत्रितं – त्वामग्ने हविष्मन्त इति सूक्ते ’ ( आश्व. श्रौ. ४. १३) इति ॥

Jamison Brereton

9 (363)
Agni
Gaya Ātreya
7 verses: anuṣṭubh, except paṅkti 5
The poet has taken special pains to link one verse to the next. Verses 2–3 form a single statement with two relative clauses joined by the marked conjunction utá. Verses 3–4 both begin with the same words utá sma “And…again,” and verse 5 also begins with a similar and conjunctive ádha sma “Then…again.” The final pāda also begins with utá, but sounds almost like an afterthought. Its seeming superflu
ity calls attention to it as an addition and thereby also to the serial concatenation across the hymn’s verses.
Less clear is the purpose that such concatenation serves. One possibility is that this structure is a verbal icon of various kinds of ritual strings. Thus it might reflect the poet’s request in the first verse that Agni “convey our oblations in proper order.” That is, the connection of verses one to another might anticipate the connected sequence of offerings made into the fire. Or it might reflect the convergences of sacri
fices, sacrificial rewards, and sacrificial participants at the rite, all mentioned in verse 2, or the union of Agni’s flames, amplified by the image of metals smelted together in verse 5. Or it might even indicate the alliance between gods and humans signified by the appearance of Agni as Mitra, the god of alliances, in verse 6. Or all of the above.

01 त्वामग्ने हविष्मन्तो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् अग्ने हवि᳓ष्मन्तो
देव᳓म् म᳓र्तास ईळते
म᳓न्ये त्वा जात᳓वेदसं
स᳓ हव्या᳓ वक्षि आनुष᳓क्

02 अग्निर्होता दास्वतः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् हो᳓ता दा᳓सुवतः
क्ष᳓यस्य वृक्त᳓बर्हिषः
सं᳓ यज्ञा᳓सश् च᳓रन्ति यं᳓
सं᳓ वा᳓जासः श्रवस्य᳓वः

03 उत स्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म यं᳓ शि᳓शुं यथा
न᳓वं ज᳓निष्ट अर᳓णी
धर्ता᳓रम् मा᳓नुषीणां᳐
विशा᳓म् अग्निं᳓ सुअध्वर᳓म्

04 उत स्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म दुर्गृभीयसे
पुत्रो᳓ न᳓ ह्वारिया᳓णा᳐म्
पुरू᳓ यो᳓ द᳓ग्धा᳓सि व᳓ना
अ᳓ग्ने पशु᳓र् न᳓ य᳓वसे

05 अध स्म - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध स्म य᳓स्य अर्च᳓यः
सम्य᳓क् संय᳓न्ति धूमि᳓नः
य᳓द् ईम् अ᳓ह त्रितो᳓ दिवि᳓
उ᳓प ध्मा᳓तेव ध᳓मति
शि᳓शीते ध्मात᳓री यथा

06 तवाहमग्न ऊतिभिर्मित्रस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓वाह᳓म् अग्न ऊति᳓भिर्
मित्र᳓स्य च प्र᳓शस्तिभिः
द्वेषोयु᳓तो न᳓ दुरिता᳓
तुर्या᳓म म᳓र्तियाना᳐म्

07 तं नो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ नो अग्ने अभी᳓ न᳓रो
रयिं᳓ सहस्व आ᳓ भर
स᳓ क्षेपयत् स᳓ पोषयद्
भु᳓वद् वा᳓जस्य सात᳓य
उतइ᳓धि पृत्सु᳓ नो वृधे᳓