००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्वामग्ने’ इति सप्तर्चमष्टमं सूक्तमात्रेयस्य इषस्य आर्षं जागतमाग्नेयम् । ‘ त्वामग्ने सप्त जागतम् ’ इत्यनुक्रमणिका । प्रातरनुवाके आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रं - जनस्य गोपास्त्वमग्न ऋतायवः’ ( आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

8 (362)
Agni
Iṣa Ātreya
7 verses: jagatī
The poet begins each verse with the object phrase tvā́m agne “you, o Agni,” except verse 5, which subtly breaks the pattern by beginning tvám agne, with the nomina tive subject pronoun instead of the accusative. Thematically the hymn emphasizes the roles of Agni as the fire of the household, of the clan, and of the clans col lectively. The poet remembers that the ancestors kindled Agni (vss. 1–2), that their descendants, the present clans, continue to do so now (vs. 3), and that through Agni they gain sustenance (vs. 5).

01 त्वामग्न ऋतायवः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।
पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥

02 त्वामग्ने अतिथिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे ।
बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥

03 त्वामग्ने मानुषीरीळते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् ।
गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥

04 त्वामग्ने धर्णसिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा॑ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम ।
स नो॑ जुषस्व समिधा॒नो अ॑ङ्गिरो दे॒वो मर्त॑स्य य॒शसा॑ सुदी॒तिभिः॑ ॥

05 त्वमग्ने पुरुरूपो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने पुरु॒रूपो॑ वि॒शेवि॑शे॒ वयो॑ दधासि प्र॒त्नथा॑ पुरुष्टुत ।
पु॒रूण्यन्ना॒ सह॑सा॒ वि रा॑जसि॒ त्विषिः॒ सा ते॑ तित्विषा॒णस्य॒ नाधृषे॑ ॥

06 त्वामग्ने समिधानम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् ।
उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ॥

07 त्वामग्ने प्रदिव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु॑म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे ।
स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॒॑ऽभि ज्रयां॑सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ॥