००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अग्निं तं मन्ये ’ इति दशर्चं षष्ठं सूक्तं वसुश्रुतस्यार्षमाग्नेयं पाङ्क्तम् । ‘अग्निं तं दश पाङ्क्तम्’ इत्यनुक्रमणिका । प्रातरनुवाके आग्नेये क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । ‘अग्निं तं मन्य इति पाङ्क्तम्’ ( आश्व. श्रौ. ४. १३ ) इति हि सूत्रितम् । आश्वमेधिके मध्यमेऽहनीदमेव आज्यशस्त्रम् । सूत्रितं च - अग्निं तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्टात् ’ ( आश्व. श्रौ. १०.१०) इति । आद्य आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्यानुरूपस्तृचः । सूत्रितं च - अग्निं तं मन्ये यो वसुराग्ने स्थूरं रयिं भर ’ (आश्व. श्रौ. ७. ८) इति ॥

Jamison Brereton

6 (360)
Agni
Vasuśruta Ātreya
10 verses: paṅkti
The hymn is dominated by references to prizewinning horses. In verse 3 Agni gives the prizewinner, which may be Agni himself. In pāda d of the verse, therefore, the one who “journeys to what is valued” is Agni both as a god retrieving the reward for the sacrificers and as a metaphoric horse racing to the prize. Again in verse 7 Agni’s flames are horses and the prize toward which they strive is cattle, first men
tioned in verse 1, along with horses. Allusion to horses is indirect in verse 10, but in 10ab the priests “guide” Agni—assuming with Geldner and Renou that ajuryamur is haplology for ajuryáṃ yamur—as they might guide a horse. Then in d they hope for an “abundance of heroes and this abundance of swift horses.” There are various possible explanations for why the poet speaks of tyád “this” abundance. One is that there is a comparison between the horses they hope to gain and Agni’s flames imag ined as horses. If so, then “this abundance” would mean an abundance of horses equivalent to the present abundance of flames.

01 अग्निं तम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं᳓ त᳓म् मन्ये यो᳓ व᳓सुर्
अ᳓स्तं यं᳓ य᳓न्ति धेन᳓वः
अ᳓स्तम् अ᳓र्वन्त आश᳓वो
अ᳓स्तं नि᳓त्यासो वाजि᳓न
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

02 सो अग्निर्यो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓ अग्नि᳓र् यो᳓ व᳓सुर् गृणे᳓
सं᳓ य᳓म् आय᳓न्ति धेन᳓वः
स᳓म् अ᳓र्वन्तो रघुद्रु᳓वः
सं᳓ सुजाता᳓सः सूर᳓य
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

03 अग्निर्हि वाजिनम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् हि᳓ वाजि᳓नं विशे᳓
द᳓दाति विश्व᳓चर्षणिः
अग्नी᳓ राये᳓ सुआभु᳓वं
स᳓ प्रीतो᳓ याति वा᳓रियम्
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

04 आ ते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते अग्न इधीमहि
द्युम᳓न्तं देव अज᳓रम्
य᳓द् ध स्या᳓ ते प᳓नीयसी
समि᳓द् दीद᳓यति द्य᳓वि
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

05 आ ते - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते अग्न ऋचा᳓ हविः᳓
शु᳓क्रस्य शोचिषस् पते
सु᳓श्चन्द्र द᳓स्म वि᳓श्पते
ह᳓व्यवाट् तु᳓भ्यं हूयत
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

06 प्रो त्ये - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रो᳓ त्ये᳓ अग्न᳓यो अग्नि᳓षु
वि᳓श्वम् पुष्यन्ति वा᳓रियम्
ते᳓ हिन्विरे त᳓ इन्विरे
त᳓ इषण्यन्ति आनुष᳓ग्
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

07 तव त्ये - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व त्ये᳓ अग्ने अर्च᳓यो
म᳓हि व्राधन्त वाजि᳓नः
ये᳓ प᳓त्वभिः शफा᳓नां᳐
व्रजा᳓ भुर᳓न्त गो᳓ना᳐म्
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

08 नवा नो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓वा नो अग्न आ᳓ भर
स्तोतृ᳓भ्यः सुक्षिती᳓र् इ᳓षः
ते᳓ सियाम य᳓ आनृचु᳓स्
त्वा᳓दूतासो द᳓मे-दम
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

09 उभे सुश्चन्द्र - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उभे᳓ सुश्चन्द्र सर्पि᳓षो
द᳓र्वी श्रीणीष आस᳓नि
उतो᳓ न उ᳓त् पुपूरिया
उक्थे᳓षु शवसस् पत
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर

10 एवाँ अग्निमजुर्यमुर्गिर्भिर्यज्ञेभिरानुषक् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

एवाँ᳓ अग्नि᳓म् अजुर्यमुर्
गीर्भि᳓र् यज्ञे᳓भिर् आनुष᳓क्
द᳓धद् अस्मे᳓ सुवी᳓रियम्
उत᳓ त्य᳓द् आशुअ᳓श्वियम्
इ᳓षं स्तोतृ᳓भ्य आ᳓ भर