००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्वमग्ने वरुणः’ इति द्वादशर्चं तृतीयं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् ।’ त्वमग्ने वसुश्रुतः’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः ‘अबोध्यग्निः’ इत्यत्रोक्तः ॥

Jamison Brereton

3 (357)
Agni
Vasuśruta Ātreya
12 verses: triṣṭubh
The hymn opens with identifications of Agni with the Ādityas—Varuṇa and Mitra in verse 1 and Aryaman and Mitra in verse 2. The reason for these identi fications is not immediately clear, and indeed in various ways the poet also mar shals the presence of other gods: Indra in verse 1, the Maruts, Viṣṇu, and Rudra in verse 3, and all the gods again in verse 1. After invoking the presence of the gods, the poet then describes the installation of the sacrificial fire (vss. 4–5). In verses 6–7 he asks that the presence of the sacrificial fire also mark the presence of Agni’s help against those who are offending against his people and himself. He mentions evil speech (vs. 7) and curses brought against its speaker (vss. 7, 12) and also against thieves and cheats (vs. 11) threatening him. He therefore asks the god for rescue (vs. 9). This concern explains the prominence of the Ādityas at the beginning of the hymn, since they are the gods who oversee social relations among humans and therefore can protect against people who seek to harm others.

01 त्वमग्ने वरुणो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने व᳓रुणो जा᳓यसे य᳓त्
तुव᳓म् मित्रो᳓ भवसि य᳓त् स᳓मिद्धः
तुवे᳓ वि᳓श्वे सहसस् पुत्र देवा᳓स्
तुव᳓म् इ᳓न्द्रो दाशु᳓षे म᳓र्तियाय

02 त्वमर्यमा भवसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् अर्यमा᳓ भवसि य᳓त् कनी᳓+++(न्या)+++नान्
ना᳓म स्वधा᳓+++(=अन्न)+++वत् स्व᳙र्यं+++(र्ग्यं)+++ बिभ᳓र्षि ।
अञ्ज᳓न्ति+++(=सिञ्चन्ति)+++ वृक्षँ᳓ सु᳓धितन्+++(=सुष्ठु निहितं)+++ न᳓ गो᳓भिर्+++(=गोविकारैराज्यादिभिः)+++
य᳓द्द᳓म्पती स᳓+++(मान)+++मनसा+++(सौ)+++ कृणो᳓षि ।

03 तव श्रिये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व श्रिये᳓ मरु᳓तो मर्जयन्त+++(=मार्जयन्ति)+++
रु᳓द्र य᳓त् ते ज᳓निम +++(वैद्युतलक्षणं)+++ चा᳓रु चित्र᳓म् ।
पदं᳓ य᳓द् वि᳓ष्णोर् उपमं᳓ निधा᳓यि
ते᳓न पासि गु᳓ह्यं ना᳓म गो᳓नाम् ॥

04 तव श्रिया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व श्रिया᳓ सुदृ᳓शो देव देवाः᳓
पुरू᳓ द᳓धाना अमृ᳓तं सपन्त
हो᳓तारम् अग्नि᳓म् म᳓नुषो नि᳓ षेदुर्
दशस्य᳓न्त उशि᳓जः शं᳓सम् आयोः᳓

05 न त्वद्धोता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त्व᳓द् धो᳓ता पू᳓र्वो अग्ने य᳓जीयान्
न᳓ का᳓वियैः परो᳓ अस्ति स्वधावः
विश᳓श् च य᳓स्या अ᳓तिथिर् भ᳓वासि
स᳓ यज्ञे᳓न वनवद् देव म᳓र्तान्

06 वयमग्ने वनुयाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वय᳓म् अग्ने वनुयाम तुवो᳓ता
वसूय᳓वो हवि᳓षा बु᳓ध्यमानाः
वयं᳓ समर्ये᳓ विद᳓थेषु अ᳓ह्नां
वयं᳓ राया᳓ सहसस् पुत्र म᳓र्तान्

07 यो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ न आ᳓गो अभि᳓ ए᳓नो भ᳓राति
अ᳓धी᳓द् अघ᳓म् अघ᳓शंसे दधात
जही᳓ चिकित्वो अभि᳓शस्तिम् एता᳓म्
अ᳓ग्ने यो᳓ नो मर्च᳓यति द्वये᳓न

08 त्वामस्या व्युषि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् अस्या᳓ विउ᳓षि देव पू᳓र्वे
दूतं᳓ कृण्वाना᳓ अयजन्त हव्यइः᳓
संस्थे᳓ य᳓द् अग्न ई᳓यसे रयीणां᳓
देवो᳓ म᳓र्तैर् व᳓सुभिर् इध्य᳓मानः

09 अव स्पृधि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व स्पृधि पित᳓रं यो᳓धि विद्वा᳓न्
पुत्रो᳓ य᳓स् ते सहसः सून ऊहे᳓
कदा᳓ चिकित्वो अभि᳓ चक्षसे नो
अ᳓ग्ने कदाँ᳓ ऋतचि᳓द् यातयासे

10 भूरि नाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भू᳓रि ना᳓म व᳓न्दमानो दधाति
पिता᳓ वसो य᳓दि त᳓ज् जोष᳓यासे
कुवि᳓द् देव᳓स्य स᳓हसा चकानः᳓
सुम्न᳓म् अग्नि᳓र् वनते वावृधानः᳓

11 त्वमङ्ग जरितारम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अङ्ग᳓ जरिता᳓रं यविष्ठ
वि᳓श्वानि अग्ने दुरिता᳓ति पर्षि
स्तेना᳓ अदृश्रन् रिप᳓वो ज᳓नासो
अ᳓ज्ञातकेता वृजिना᳓ अभूवन्

12 इमे यामासस्त्वद्रिगभूवन्वसवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमे᳓ या᳓मासस् तुवद्रि᳓ग् अभूवन्
व᳓सवे वा त᳓द् इ᳓द् आ᳓गो अवाचि
ना᳓हाय᳓म् अग्नि᳓र् अभि᳓शस्तये नो
न᳓ री᳓षते वावृधानः᳓ प᳓रा दात्