००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

॥ अथ पञ्चमं मण्डलम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

आत्रेये पञ्चमे मण्डले षडनुवाकाः । तत्र प्रथमेऽनुवाके चतुर्दश सूक्तानि । तत्र ‘ अबोध्यग्निः ’ इति द्वादशर्चं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका–’ अबोधि द्वादश बुधगविष्ठिरौ ’ इति । पञ्चमे मण्डलेऽनुक्तगोत्रमात्रेयं विद्यादिति परिभाषितत्वादात्रेयौ बुधगविष्ठिरावृषी । अनादेशपरिभाषया त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चैतदादिचत्वारि सूक्तानि । तथा च सूत्रितम्- अबोध्यग्निः समिधेति चत्वारि ’ ( आश्व.श्रौ. ४. १३ ) इति ॥ अध्यायोत्सर्जनोपाकरणयोर्धामन्ते विश्वमिति द्वृचत्वेन विनियोग उक्तः ॥

Jamison Brereton

1 (355)
Agni
Budha Ātreya and Gaviṣṭhira Ātreya
12 verses: triṣṭubh
The hymn describes the kindling and birth of Agni in the morning rite. In the middle section of the hymn, the poet links verses by repeating an image from the second hemistich in the opening hemistich of the next verse. So in 4d and 5a Agni as a horse is born “at the beginning of days,” although in verse 4 this may be Agni as the sun, while in verse 5 Agni is clearly the sacrificial fire. Note the difference in color: the horse is “gleaming” or “white” in verse 4, but “ruddy” in verse 5. The poet almost repeats 5d in 6a, except that he has shifted the tense in 6d to a more dis
tant past indicating the passage of time between the verses. More loosely, in 6c Agni is a sage poet (kaví) and in 7a an “inspired” poet (vípra). In 7d the priests “groom” (mr̥janti) Agni, imagined as a horse, and in 8a “fit to be groomed, he is groomed” (mārjālyò mr̥jyate). In 8d Agni is ahead (prá √as) of other fires and in 9a he goes ahead (prá √i) of other sacrificers. Though a common metaphor, the image of Agni as a horse or a chariot-driver is treated with originality. Most strikingly, in verse 3, instead of the priests awaken ing Agni, Agni awakens the hymn, “the bridle” (raśanā́) of the horse that pulls the chariot, the sacrifice itself, while the dakṣiṇā, the sacrificial reward to the priests, is the horse. The end of the verse shifts to the metaphor of Agni as a growing child. The word for “tongues” of flame, juhū́, can also mean a sacrificial ladle, and this ambiguity is the basis for the ellipsis of the noun.

01 अबोध्यग्निः समिधा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓बोधि अग्निः᳓ समि᳓धा ज᳓नानाम्
प्र᳓ति धेनु᳓म् इवायती᳓म् उषा᳓सम्
यह्वा᳓ इव प्र᳓ वया᳓म् उज्जि᳓हानाः
प्र᳓ भान᳓वः सिस्रते ना᳓कम् अ᳓छ

02 अबोधि होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓बोधि हो᳓ता यज᳓थाय देवा᳓न्
ऊर्ध्वो᳓ अग्निः᳓ सुम᳓नाः प्रात᳓र् अस्थात्
स᳓मिद्धस्य रु᳓शद् अदर्शि पा᳓जो
महा᳓न् देव᳓स् त᳓मसो नि᳓र् अमोचि

03 यदीं गणस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् ईं गण᳓स्य रशना᳓म् अ᳓जीगः
शु᳓चिर् अङ्क्ते शु᳓चिभिर् गो᳓भिर् अग्निः᳓
आ᳓द् द᳓क्षिना युज्यते वाजय᳓न्ति
उत्ताना᳓म् ऊर्ध्वो᳓ अधयज् जुहू᳓भिः

04 अग्निमच्छा देवयताम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓म् अ᳓छा देवयता᳓म् म᳓नांसि
च᳓क्षूंषीव सू᳓रिये सं᳓ चरन्ति
य᳓द् ईं सु᳓वाते उष᳓सा वि᳓रूपे
श्वेतो᳓ वाजी᳓ जायते अ᳓ग्रे अ᳓ह्नाम्

05 जनिष्थ हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓निष्ट हि᳓ जे᳓नियो अ᳓ग्रे अ᳓ह्नां
हितो᳓ हिते᳓षु अरुषो᳓ व᳓नेषु
द᳓मे-दमे सप्त᳓ र᳓त्ना द᳓धानो
अग्नि᳓र् हो᳓ता नि᳓ षसादा य᳓जीयान्

06 अग्निर्होता न्यसीदद्यजीयानुपस्थे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् हो᳓ता नि᳓ असीदद् य᳓जीयान्
उप᳓स्थे मातुः᳓ सुरभा᳓ उलोके᳓†
यु᳓वा कविः᳓ पुरुनिष्ठ᳓ ऋता᳓वा
धर्ता᳓ कृष्टीना᳓म् उत᳓ म᳓ध्य इद्धः᳓

07 प्र णु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ णु᳓ त्यं᳓ वि᳓प्रम् अध्वरे᳓षु साधु᳓म्
अग्निं᳓ हो᳓तारम् ईळते न᳓मोभिः
आ᳓ य᳓स् तता᳓न रो᳓दसी ऋते᳓न
नि᳓त्यम् मृजन्ति वाजि᳓नं घृते᳓न

08 मार्जाल्यो मृज्यते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मार्जालि᳓यो मृज्यते स्वे᳓ द᳓मूनाः
कविप्रशस्तो᳓ अ᳓तिथिः शिवो᳓ नः
सह᳓स्रशृङ्गो वृषभ᳓स् त᳓दोजा
वि᳓श्वाँ अग्ने स᳓हसा प्रा᳓सि अन्या᳓न्

09 प्र सद्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सद्यो᳓ अग्ने अ᳓ति एषि अन्या᳓न्
आवि᳓र् य᳓स्मै चा᳓रुतमो बभू᳓थ
ईळे᳓नियो वपुषि᳓यो विभा᳓वा
प्रियो᳓ विशा᳓म् अ᳓तिथिर् मा᳓नुषीणाम्

10 तुभ्यं भरन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्यम् भरन्ति क्षित᳓यो यविष्ठ
बलि᳓म् अग्ने अ᳓न्तित ओ᳓त᳓ दूरा᳓त्
आ᳓ भ᳓न्दिष्ठस्य सुमतिं᳓ चिकिद्धि
बृह᳓त् ते अग्ने म᳓हि श᳓र्म भद्र᳓म्

11 आद्य रथम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द्य᳓ र᳓थम् भानुमो भानुम᳓न्तम्
अ᳓ग्ने ति᳓ष्ठ यजते᳓भिः स᳓मन्तम्
विद्वा᳓न् पथीना᳓म् उरु᳓ अन्त᳓रिक्षम्
ए᳓ह᳓ देवा᳓न् हविर᳓द्याय वक्षि

12 अवोचाम कवये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वोचाम कव᳓ये मे᳓धियाय
व᳓चो वन्दा᳓रु वृषभा᳓य वृ᳓ष्णे
ग᳓विष्ठिरो न᳓मसा स्तो᳓मम् अग्नउ᳓
दिवी᳓व रुक्म᳓म् उरुव्य᳓ञ्चम् अश्रेत्