०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ समुद्रादूर्मिः ’ इत्येकादशर्चं त्रयोदशं सूक्तम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अग्निसूर्याब्गोघृतानामन्यतमो देवता । वामदेव ऋषिः । अत्रानुक्रमणिका – समुद्रादूर्मिरेकादशाग्नेयं जगत्यन्तं सौर्यं वापं वा गव्यं वा घृतस्तुतिर्वा ’ इति । विषुवतीदं सूक्तमाज्यम् । तथा च सूत्रं – ‘ समुद्रादूर्मिरित्याज्यं त्यं सुमेषम् ’ ( आश्व. श्रौ. ८. ६ ) इति । व्यूढे दशरात्रे सप्तमेऽहनीदमेव सूक्तमाज्यम् । सूत्रितं च -’ अथ छन्दोमाः समुद्रादूर्मिरित्याज्यम् ’ ( आश्व. श्रौ. ८. ९) इति ॥

Jamison Brereton

58 (354)
Ghee
Vāmadeva Gautama
11 verses: triṣṭubh, except jagatī 11
The Anukramaṇī provides a bewildering variety of choices for the divinity of this hymn: Agni, or the Sun, or the waters, or the cows—or ghee (ghr̥ta), the clarified melted butter regularly used as an oblation in sacrifice. The last is clearly correct.
Ghee is here given the same type of exalted, high-style rhetorical treatment as the other crucial ritual substance, soma, with which it is also identified in this poem. Phraseology appropriate to soma is applied to the streams of ghee throughout, and, like soma, ghee becomes the focus of mystical speculations and also the subject of vivid images. It is not surprising that this significant sacrificial substance should receive such poetic glorification, especially given the importance of cows and cow imagery in the R̥gveda.
What should really surprise us is that only this poet in this late and final hymn in just one maṇḍala should have seen fit to make ghee his subject. Soma, after all, has a whole maṇḍala of 114 hymns to itself. Grammatical accident may help account for the difference: sóma is grammatically masculine and thus easily personified, while ghr̥ta is grammatically neuter. However, the prominence of the cognate substance in Old Iranian (Aves. haoma, Old Persian hauma) and the existence of a lengthy praise hymn to deified Haoma in Younger Avestan (the Hōm Yašt, Yasna 9–10) testify to a long tradition of celebration of soma, which is not shared by ghee.644 IV.58

Jamison Brereton Notes

Ghee

01 समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रा᳓द् ऊर्मि᳓र् म᳓धुमाँ उ᳓द् आरद्
उ᳓पांशु᳓ना स᳓म् अमृतत्व᳓म् आनट्
घृत᳓स्य ना᳓म गु᳓हियं य᳓द् अ᳓स्ति
जिह्वा᳓ देवा᳓नाम् अमृ᳓तस्य ना᳓भिः

02 वयं नाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ ना᳓म प्र᳓ ब्रवामा घृत᳓स्य
अस्मि᳓न् यज्ञे᳓ धारयामा न᳓मोभिः
उ᳓प ब्रह्मा᳓ शृणवच् छस्य᳓मानं
च᳓तुःशृङ्गो अवमीद् गौर᳓ एत᳓त्

03 चत्वारि शृङ्गा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चत्वा᳓रि शृ᳓ङ्गा त्र᳓यो अस्य पा᳓दा
दुवे᳓ शीर्षे᳓ सप्त᳓ ह᳓स्तासो अस्य
त्रि᳓धा बद्धो᳓ वृषभो᳓ रोरवीति
महो᳓ देवो᳓ म᳓र्तियाँ आ᳓ विवेश

04 त्रिधा हितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓धा +++(क्षीर-दध्य्-आज्य-भेदेन)+++ हितं᳓ पणि᳓भिर् गुह्य᳓मानं
ग᳓वि देवा᳓सो घृत᳓म् अ᳓न्वविन्दन् ।
इ᳓न्द्र ए᳓कं सू᳓र्य ए᳓कं जजान
वेना᳓द् ए᳓कं स्वध᳓या नि᳓ष्टतक्षुः+++(=निरपादयन्)+++ ॥

05 एता अर्षन्ति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ अर्षन्ति हृ᳓दियात् समुद्रा᳓च्
छत᳓व्रजा रिपु᳓णा ना᳓वच᳓क्षे
घृत᳓स्य धा᳓रा अभि᳓ चाकशीमि
हिरण्य᳓यो वेतसो᳓ म᳓ध्य आसाम्

06 सम्यक्स्रवन्ति सरितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सम्य᳓क् स्रवन्ति सरि᳓तो न᳓ धे᳓ना
अन्त᳓र् हृदा᳓ म᳓नसा पूय᳓मानाः
एते᳓ अर्षन्ति ऊर्म᳓यो घृत᳓स्य
मृगा᳓ इव क्षिपणो᳓र् ई᳓षमाणाः

07 सिन्धोरिव प्राध्वने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सि᳓न्धोर् इव प्राध्वने᳓ शूघना᳓सो
वा᳓तप्रमियः पतयन्ति यह्वाः᳓
घृत᳓स्य धा᳓रा अरुषो᳓ न᳓ वाजी᳓
का᳓ष्ठा भिन्द᳓न्न् ऊर्मि᳓भिः पि᳓न्वमानः

08 अभि प्रवन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ प्रवन्त स᳓मनेव यो᳓षाः
कल्याणि᳓यः स्म᳓यमानासो अग्नि᳓म्
घृत᳓स्य धा᳓राः समि᳓धो नसन्त
ता᳓ जुषाणो᳓ हर्यति जात᳓वेदाः

09 कन्या इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कन्या᳡ इव वहतु᳓म् ए᳓तवा᳓ उ
अञ्जि᳓ अञ्जाना᳓ अभि᳓ चाकशीमि
य᳓त्र सो᳓मः सूय᳓ते य᳓त्र यज्ञो᳓
घृत᳓स्य धा᳓रा अभि᳓ त᳓त् पवन्ते

10 अभ्यर्षत सुष्थुतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्य् अ᳡र्षत सुष्टुतिं᳓ ग᳓व्यम् आजि᳓म्
अस्मा᳓सु भद्रा᳓ द्र᳓विणानि धत्त
इमं᳓ यज्ञं᳓ नयत देव᳓ता नो
घृत᳓स्य धा᳓रा म᳓धुमत् पवन्ते

11 धामन्ते विश्वम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धा᳓मन् ते वि᳓श्वम् भु᳓वनम् अ᳓धि श्रित᳓म्
अन्तः᳓ समुद्रे᳓ हृदि᳓ अन्त᳓र् आ᳓युषि
अपा᳓म् अ᳓नीके समिथे᳓ य᳓ आ᳓भृतस्
त᳓म् अश्याम म᳓धुमन्तं त ऊर्मि᳓म्