०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ क्षेत्रस्य पतिना’ इत्यष्टर्चं द्वादशं सूक्तं वामदेवस्यार्षम् । आद्याचतुर्थषष्ठीसप्तम्योऽनुष्टुभः पञ्चमी पुरउष्णिक् । ’ आद्यश्चेत्पुरउष्णिक्’ इति हि तल्लक्षणम् । शिष्टास्तिस्रस्त्रिष्टुभः । आद्यास्तिस्रः क्षेत्रपतिदेवताकाश्चतुर्थी शुनाख्यदेवताका पञ्चम्यष्टम्यौ शुनासीरदेवताके षष्ठीसप्तम्यौ सीतादेवताके । तथा चानुक्रमणिका - क्षेत्रस्याष्टौ तिस्रः क्षैत्रपत्याः शुनायैका परा पुरउष्णिक् सान्त्या च शुनासीराभ्यामुपान्त्ये सीतायै ते’ अनुष्टुभावाद्या च चतुर्थी च ’ इति ॥ क्षेत्रस्य कर्षणेऽनेन सूक्तेन प्रत्यृचं जुहुयाज्जपेद्वा । तथा च सूत्रितं - क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद्वा ’ (आश्व. गृ. २. १०. ४ ) इति ॥ अप्तोर्यामे होतुरतिरिक्तोक्थ्य आश्विनशस्त्रादूर्ध्वं चत्वार्यतिरिक्तोक्थ्यानि । तत्राद्या परिधानीया । सूत्रितं च - ‘ क्षेत्रस्य पतिना वयमिति परिधानीया ’ ( आश्व. श्रौ. ९. ११ ) इति ॥

Jamison Brereton

57 (353)
Agricultural Divinities
Vāmadeva Gautama
8 verses: anuṣṭubh 1, 4, 6–7; triṣṭubh 2–3, 8; puraüṣṇih 5
This hymn is in a variety of meters, alternating throughout the poem, and it is dedicated to a number of different divinities related to agriculture. With its num ber of verses it is out of place in the collection, and its subject matter and tone are more “popular” than those of the core R̥gveda. It is not possible to determine whether the hymn we have now was assembled out of several separate hymns, but at least verses 1–3, dedicated to the Lord of the Field, hang together, though they are not metrically uniform. A curious feature in the later part of the hymn is the
dual address (via a dual dvandva compound) to “Prosperity and Plow” (vss. 5, 7). Hymns like this give us precious glimpses into everyday life and the technical ter minology of particular professions. The hymn is notable also for its address to the Furrow (vs. 6, see also 7), the first appearance of the feminine noun sī́tā, renowned in later Sanskrit of course as the name of Rāma’s noble wife in the Rāmāyaṇa.

Jamison Brereton Notes

Agricultural Divinities

01 क्षेत्रस्य पतिना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ख्षेत्र॑स्य॒ पति॑ना व॒यꣳ
(बन्धुमित्रादि)हि॒तेने॑व जयामसि
गाम् अश्व॑म् पोषयि॒त्न्व् आ
स नः॑ मृडाती॒दृशे᳚ (ऽर्थे)

02 क्षेत्रस्य पते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ख्षेत्र॑स्य पते॒ मधु॑मन्तम् ऊ॒र्मिं
धे॒नुर् इ॑व॒ पयो॑ अ॒स्मासु॑ धुख्ष्व
म॒धु॒श्चुत॑ङ्(=मधुरसिञ्चकं) घृ॒तम् इ॑व॒ सुपू॑तम्
ऋ॒तस्य॑ (यज्ञसहितस्य) न॒ᳶ पत॑यो मृडयन्तु

03 मधुमतीरोषधीर्द्याव आपो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।
क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥

04 शुनं वाहाः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् ।
शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥

05 शुनासीराविमां वाचम् - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ ।
तेने॒मामुप॑ सिञ्चतम् ॥

06 अर्वाची सुभगे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा ।
यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥

07 इन्द्रः सीताम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु ।
सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥

08 शुनं नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।
शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥