०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मही द्यावापृथिवी ’ इति सप्तर्चमेकादशं सूक्तं वामदेवस्यार्षं द्यावापृथिव्यम् । पूर्वत्र ‘ त्रिगायत्र्यन्तं तु ’ इत्युक्तत्वात् पञ्चम्याद्यास्तिस्रो गायत्र्यः शिष्टास्त्रिष्टुभः ।’ मही सप्त द्यावापृथिवीयम् ’ इत्यनुक्रमणिका । व्यूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्रे आदितश्चतुर्ऋचं द्यावापृथिव्यनिविद्धानीयम् । तथा च सूत्रितं - मही द्यावापृथिवी इति चतस्र ऋभुर्विभ्वा’ ( आश्व. श्रौ. ८. ८) इति ॥

Jamison Brereton

56 (352)
Heaven and Earth
Vāmadeva Gautama
7 verses: triṣṭubh 2–4, gāyatrī 5–7
Like the preceding hymn, this one is divided into two by meter: 1–4, 5–7; the two were presumably independent hymns originally. The first four verses mix invoca tions of Heaven and Earth at the current sacrifice with cosmogonic accounts of their creation (see esp. vs. 3 and its present-time counterpart in 1cd), but the ritual context is dominant. There are a number of puns. The short second hymn continues the ritual focus.

Jamison Brereton Notes

Heaven and Earth

01 मही द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मही᳓ द्या᳓वापृथिवी᳓ इह᳓ ज्ये᳓ष्ठे
रुचा᳓ भवतां शुच᳓यद्भिर् अर्कइः᳓
य᳓त् सीं व᳓रिष्ठे बृहती᳓ विमिन्व᳓न्
रुव᳓द् धोक्षा᳓ पप्रथाने᳓भिर् ए᳓वैः

02 देवी देवेभिर्यजते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवी᳓ देवे᳓भिर् यजते᳓ य᳓जत्रैर्
अ᳓मिनती तस्थतुर् उक्ष᳓माणे
ऋता᳓वरी अद्रु᳓हा देव᳓पुत्रे
यज्ञ᳓स्य नेत्री᳓ शुच᳓यद्भिर् अर्कइः᳓

03 स इत्स्वपा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ इ᳓त् सुअ᳓पा भु᳓वनेषु आस
य᳓ इमे᳓ द्या᳓वापृथिवी᳓ जजा᳓न
उर्वी᳓ गभीरे᳓ र᳓जसी सुमे᳓के
अवंशे᳓ धी᳓रः श᳓चिया स᳓म् ऐरत्

04 नू रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ रोदसी बृह᳓द्भिर् नो व᳓रूथैः
प᳓त्नीवद्भिर् इष᳓यन्ती सजो᳓षाः
उरूची᳓ वि᳓श्वे यजते᳓ नि᳓ पातं
धिया᳓ सियाम रथि᳓यः सदासाः᳓

05 प्र वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वाम् म᳓हि द्य᳓वी अभि᳓
उ᳓पस्तुतिम् भरामहे
शु᳓ची उ᳓प प्र᳓शस्तये

06 पुनाने तन्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुनाने᳓ तनु᳓वा मिथः᳓
स्वे᳓न द᳓क्षेण राजथः
ऊहिया᳓थे सना᳓द् ऋत᳓म्

07 मही मित्रस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मही᳓ मित्र᳓स्य साधथस्
त᳓रन्ती पि᳓प्रती ऋत᳓म्
प᳓रि यज्ञं᳓ नि᳓ षेदथुः