०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अभूद्देवः’ इति षडृचं नवमं सूक्तं वामदेवस्यर्षं सावित्रम् । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका – अभूद्देवः षट् त्रिष्टुबन्तम्’ इति । अनिष्टोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रम् - ‘ अभूद्देव एकया च दशभिश्च स्वभूते’ ( आश्व. श्रौ. ५. १८) इति । आद्या सावित्रग्रहस्यानुवाक्या । तथा च सूत्रं - सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः ’ ( आश्व. श्रौ. ५. १८) इति ॥

Jamison Brereton

54 (350)
Savitar
Vāmadeva Gautama
6 verses: jagatī, except triṣṭubh 6
This hymn conveys a much more intimate sense of our connection to Savitar than the preceding hymn with its formal praises. This intimacy is achieved by the aorist of the immediate past that opens the hymn announcing his epiphany—“he has arrived!”— and by the vocatives and 2nd-person address that follow. The closeness of our rela tionship with the god allows us to ask him for something more personal than the shelter and support requested in IV.53, namely (in the middle verse, vs. 3) for Savitar
to intercede on our behalf with anyone, divine or mortal, whom we have offended. The hymn also makes heavy use of the verb sū “impel” from which Savitar’s name is derived: it is found in all verses but the first.

Jamison Brereton Notes

Savitar

01 अभूद्देवः सविता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓भूद् देवः᳓ सविता᳓ व᳓न्दियो नु᳓ न
इदा᳓नीम् अ᳓ह्न उपवा᳓चियो नृ᳓भिः
वि᳓ यो᳓ र᳓त्ना भ᳓जति मानवे᳓भियः
श्रे᳓ष्ठं नो अ᳓त्र द्र᳓विणं य᳓था द᳓धत्

02 देवेभ्यो हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देवे᳓भ्यो हि᳓ प्रथमं᳓ यज्ञि᳓येभियो
अमृतत्वं᳓ सुव᳓सि भाग᳓म् उत्तम᳓म्
आ᳓द् इ᳓द् दामा᳓नं सवितर् वि᳓ ऊर्णुषे
अनूचीना᳓ जीविता᳓ मा᳓नुषेभियः

03 अचित्ती यच्चकृमा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓चित्ती य᳓च् चकृमा᳓ दइ᳓विये ज᳓ने
दीनइ᳓र् द᳓क्षैः प्र᳓भूती पूरुषत्व᳓ता
देवे᳓षु च सवितर् मा᳓नुषेषु च
तुवं᳓ नो अ᳓त्र सुवताद् अ᳓नागसः

04 न प्रमिये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ प्रमि᳓ये सवितु᳓र् दइ᳓वियस्य त᳓द्
य᳓था वि᳓श्वम् भु᳓वनं धारयिष्य᳓ति
य᳓त् पृथिव्या᳓ व᳓रिमन्न् आ᳓ सुअङ्गुरि᳓र्
व᳓र्ष्मन् दिवः᳓ सुव᳓ति सत्य᳓म् अस्य त᳓त्

05 इन्द्रज्येष्टान्बृहद्भ्यः पर्वतेभ्यः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रज्येष्ठान् बृह᳓द्भ्यः प᳓र्वतेभियः
क्ष᳓याँ एभ्यः सुवसि पस्ति᳓यावतः
य᳓था-यथा पत᳓यन्तो वियेमिर᳓
एवइ᳓व᳓ तस्थुः सवितः सवा᳓य ते

06 ये ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ ते त्रि᳓र् अ᳓हन् सवितः सवा᳓सो
दिवे᳓-दिवे सउ᳓भगम् आसुव᳓न्ति
इ᳓न्द्रो द्या᳓वापृथिवी᳓ सि᳓न्धुर् अद्भि᳓र्
आदित्यइ᳓र् नो अ᳓दितिः श᳓र्म यंसत्