०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तद्देवस्य ’ इति सप्तर्चमष्टमं सूक्तं वामदेवस्यार्षं जागतं सावित्रम् । तथा चानुक्रम्यते ‘ तद्देवस्य सावित्रं तु जागतम्’ इति । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रितं- तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रः’ ( आश्व. श्रौ. ७. ७) इति ॥

Jamison Brereton

53 (349)
Savitar
Vāmadeva Gautama
7 vereses: jagatī
A relatively straightforward hymn dedicated to Savitar, literally “the Impeller.” Savitar’s natural control over the rhythms of life—alternatively setting the world in motion and causing it to settle down—is emphasized, as is his omnipresence in the cosmos. It is noteworthy that throughout the hymn, even in the requests for Savitar’s protection and benefits (vss. 1, 6–7), the god stays in the 3rd person, gram
matically distanced from us despite his direct involvement in our affairs.

01 तद्देवस्य सवितुर्वार्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभिः॑ ॥

02 दिवो धर्ता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः ।
वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥

03 आप्रा रजांसि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।
प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥

04 अदाभ्यो भुवनानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।
प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥

05 त्रिरन्तरिक्षं सविता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिर् अ॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना,
(तत्रान्तरिक्षे - ) त्री रजां॑सि परि॒-भुस्(←भू), त्रीणि॑ रोच॒ना (रजसां विपरीताः)
ति॒स्रो दिवः॑, पृथि॒वीस् ति॒स्र इ॑न्वति(=चोदयति)
त्रि॒भिर् व्र॒तैर् अ॒भि नो॑ रक्षति॒ त्मना॑ ॥

06 बृहत्सुम्नः प्रसवीता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।
स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥

07 आगन्देव ऋतुभिर्वर्धतु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् ।
स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥