०५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्रति ष्या’ इति सप्तर्चं सप्तमं सूक्तं वामदेवस्यार्षं गायत्रमुषोदेवताकम् ।’ प्रति ष्या सप्त गायत्रम्’ इत्यनुक्रमणिका । प्रतिरनुवाक उषस्ये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं शस्यम् । ‘ अथोषस्यः प्रति ष्या सूनरी ’ ( आश्व. श्रौ. ४. १४ ) इति हि सूत्रितम् ॥

Jamison Brereton

52 (348)
Dawn
Vāmadeva Gautama
7 verses: gāyatrī
A simple hymn in contrast to the immediately preceding dawn hymn, with Dawn depicted and addressed only in the singular. The Aśvin pair is named in verses 2–3 because of their early-morning journey to the sacrifice.

Jamison Brereton Notes

Dawn

01 प्रति ष्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ ।
दि॒वो अ॑दर्शि दुहि॒ता ॥

02 अश्वेव चित्रारुषी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री ।
सखा॑भूद॒श्विनो॑रु॒षाः ॥

03 उत सखास्यश्विनोरुत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि ।
उ॒तोषो॒ वस्व॑ ईशिषे ॥

04 यावयद्द्वेषसं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि ।
प्रति॒ स्तोमै॑रभुत्स्महि ॥

05 प्रति भद्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ ।
ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥

06 आपप्रुषी विभावरि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ ।
उषो॒ अनु॑ स्व॒धाम॑व ॥

07 आ द्याम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।
उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥