०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ वायो शुक्रः’ इति चतुर्ऋचं द्वितीयं सूक्तमानुष्टुभं वामदेवस्यार्षम् ऐन्द्रवायवम् । आद्या केवलवायव्या । अत्रानुक्रमणिका - वायो चतुष्कमाद्या वायव्यानुष्टुभं तु ’ इति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे वायच्यतृचे प्रथमा । ‘ वायो शुक्रो अयामि ते विहि होत्रा अवीताः ’ ( आश्व. श्रौ. ७. ११ ) इति सूत्रितम् ॥

Jamison Brereton

47 (343)
Vāyu (1), Vāyu and Indra (2–4)
Vāmadeva Gautama
4 verses: anuṣṭubh
Like the immediately preceding hymn, this one fulfills its ritual purpose with a mini mum of fuss: Vāyu, and then Indra and Vāyu, are invited to partake of the first soma offerings at the Morning Pressing.

Jamison Brereton Notes

Vāyu and Indra As in the preceding hymn, vs. 1 is addressed only to Vāyu, with single voc., but the rest of the vss. address them jointly, in three different ways. In 2a we have a reverse Vāyav Indraś ca construction índraś ca vāyo, in 3a the same construction in normal order, and in 4d the dual dvandva voc. índravāyū found in 46.3-7.

01 वायो शुक्रो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓यो शुक्रो᳓ अयामि ते
म᳓ध्वो अ᳓ग्रं दि᳓विष्टिषु
आ᳓ याहि सो᳓मपीतये
स्पार्हो᳓ देव नियु᳓त्वता

02 इन्द्रश्च वायवेषाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रश् च वायव् एषां᳐
सो᳓मानाम् पीति᳓म् अर्हथः
युवां᳓ हि᳓ य᳓न्ति इ᳓न्दवो
निम्न᳓म् आ᳓पो न᳓ सध्रि᳓अक्

03 वायविन्द्रश्च शुष्मिणा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓यव् इ᳓न्द्रश् च शुष्मि᳓णा
सर᳓थं शवसस् पती
नियु᳓त्वन्ता न ऊत᳓य
आ᳓ यातं सो᳓मपीतये

04 या वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वां स᳓न्ति पुरुस्पृ᳓हो
नियु᳓तो दाशु᳓षे नरा
अस्मे᳓ ता᳓ यज्ञवाहसा
इ᳓न्द्रवायू नि᳓ यछतम्