०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘अग्रं पिब ’ इति सप्तर्चं प्रथमं सूक्तं वामदेवस्यार्षं गायत्रम् । कृत्स्नम् इन्द्रवायुदेवताकम् आद्या केवलवायव्या । तथा चानुक्रान्तम् –‘अग्रं वायव्याद्यैन्द्रवायवं तु गायत्रम्’ इति । सूक्तविनियोगो लैङ्गिकः । आद्ये द्वे ऐन्द्रवायवग्रहस्य याज्ये । तथा च सूत्रितम् - ‘ अग्रं पिबा मधूनामिति याज्ये अनवानम् ’ ( आश्व. श्रौ. ५.५) इति ।

Jamison Brereton

46 (342)
Vāyu (1), Vāyu and Indra (2–7)
Vāmadeva Gautama
7 verses: gāyatrī
This simple hymn never strays from its ritual purpose: at the Morning Pressing of the soma sacrifice, Vāyu and then Indra and Vāyu receive the first offerings of soma. Here they are urged to come to the sacrifice and drink their shares.

Jamison Brereton Notes

Vāyu and Indra

01 अग्रं पिबा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्रम् पिबा म᳓धूनां᳐
सुतं᳓ वायो दि᳓विष्टिषु
तुवं᳓ हि᳓ पूर्वपा᳓ अ᳓सि

02 शतेना नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शते᳓ना नो अभि᳓ष्टिभिर्
नियु᳓त्वाँ इ᳓न्द्रसारथिः
वा᳓यो सुत᳓स्य तृम्पतम्

03 आ वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां सह᳓स्रं ह᳓रय
इ᳓न्द्रवायू अभि᳓ प्र᳓यः
व᳓हन्तु सो᳓मपीतये

04 रथं हिरण्यवन्धुरमिन्द्रवायू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थं हि᳓रण्यवन्धुरम्
इ᳓न्द्रवायू सुअध्वर᳓म्
आ᳓ हि᳓ स्था᳓थो दिविस्पृ᳓शम्

05 रथेन पृथुपाजसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓थेन पृथुपा᳓जसा
दाश्वां᳓सम् उ᳓प गछतम्
इ᳓न्द्रवायू इहा᳓ गतम्

06 इन्द्रवायू अयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रवायू अयं᳓ सुत᳓स्
तं᳓ देवे᳓भिः सजो᳓षसा
पि᳓बतं दाशु᳓षो गृहे᳓

07 इह प्रयाणमस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ प्रया᳓णम् अस्तु वाम्
इ᳓न्द्रवायू विमो᳓चनम्
इह᳓ वां सो᳓मपीतये