०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तं वां रथम्’ इति सप्तर्चं द्वादशं सूक्तम् । पुरुमीळहाजमीळ्हावेव ऋषी । त्रिष्टुप् छन्दः । अश्विनौ देवता ।’ तं वाम् ’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

44 (340)
Aśvins
Purumīḷha Sauhotra and Ajamīḷha Sauhotra
7 verses: triṣṭubh
Connected with IV.43 by their shared final verse, this hymn begins with another reference to the wedding journey of Sūryā on the Aśvins’ chariot, also expressed in the present tense (like IV.43.6; see also IV.45.1). Thereafter the hymn concen trates solely on the Aśvins’ chariot journey to our sacrifice and the reciprocal ritual exchange (aid and goods for soma and other oblations) that will occur there. The threat of other sacrificers attracting the gods elsewhere is also on the poet’s mind (vss. 3–5).

Jamison Brereton Notes

Aśvins

01 तं वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ वां र᳓थं वय᳓म् अद्या᳓ हुवेम
पृथुज्र᳓यम् अश्विना सं᳓गतिं गोः᳓
यः᳓ सूरियां᳓ व᳓हति वन्धुरायु᳓र्
गि᳓र्वाहसम् पुरुत᳓मं वसूयु᳓म्

02 युवं श्रियमश्विना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवं᳓ श्रि᳓यम् अश्विना देव᳓ता तां᳓
दि᳓वो नपाता वनथः श᳓चीभिः
युवो᳓र् व᳓पुर् अभि᳓ पृ᳓क्षः सचन्ते
व᳓हन्ति य᳓त् ककुहा᳓सो र᳓थे वाम्

03 को वामद्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ वाम् अद्या᳓ करते रात᳓हव्य
ऊत᳓ये वा सुतपे᳓याय वार्कइः᳓
ऋत᳓स्य वा वनु᳓षे पूर्विया᳓य
न᳓मो येमानो᳓ अश्विना᳓ ववर्तत्

04 हिरण्ययेन पुरुभू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्य᳓येन पुरुभू र᳓थेन
इमं᳓ यज्ञं᳓ नासतियो᳓प यातम्
पि᳓बाथ इ᳓न् म᳓धुनः सोमिय᳓स्य
द᳓धथो र᳓त्नं विधते᳓ ज᳓नाय

05 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो यातं दिवो᳓ अ᳓छा पृथिव्या᳓
हिरण्य᳓येन सुवृ᳓ता र᳓थेन
मा᳓ वाम् अन्ये᳓ नि᳓ यमन् देवय᳓न्तः
सं᳓ य᳓द् ददे᳓ · ना᳓भिः पूर्विया᳓ वाम्

06 नू नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳓ नो रयि᳓म् पुरुवी᳓रम् बृह᳓न्तं
द᳓स्रा मि᳓माथाम् उभ᳓येषु अस्मे᳓
न᳓रो य᳓द् वाम् अश्विना स्तो᳓मम् आ᳓वन्
सध᳓स्तुतिम् आजमीळ्हा᳓सो अग्मन्

07 इहेह यद्वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इहे᳓ह य᳓द् वां समना᳓ पपृक्षे᳓
से᳓य᳓म् अस्मे᳓ सुमति᳓र् वाजरत्ना
उरुष्य᳓तं जरिता᳓रं युवं᳓ ह
श्रितः᳓ का᳓मो नासतिया युवद्रि᳓क्