०३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आशुं दधिक्राम्’ इति षडृचं सप्तमं सूक्तम् । आदितः पञ्च त्रिष्टुभः षष्ठ्यनुष्टुप् । ऋषिर्वामदेवः । पूर्वसूक्ते हीत्युक्तत्वात् एतदपि दाधिक्रम् । तथा चानुक्रान्तम् - ‘ आशुं षळन्त्यानुष्टुप् ’ इति । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

39 (335)
Dadhikrā
Vāmadeva Gautama
6 verses: triṣṭubh, except anuṣṭubh 6
In this celebratory hymn the very real and physical horse of the preceding hymn (IV.38) has become a mere recipient of and occasion for a formal encomium. He is invoked along with a number of gods and thus appears to have achieved a measure of divinity, but the artistry of IV.38 has been replaced by the deployment of stiff and conventional formulae. It is, however, interesting to see how an encomium of this sort, presumably a particular type of occasional verse, would be constructed.

Jamison Brereton Notes

Dadhikrā As was noted in the published introduction, the middle hymn of the small Dadhikrā cycle differs in style and content from the hymns before and after, presenting a formal praśasti-type encomium.

01 आशुं दधिक्राम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आशुं᳓ दधिक्रां᳓ त᳓म् उ नु᳓ ष्टवाम
दिव᳓स् पृथिव्या᳓ उत᳓ चर्किराम
उछ᳓न्तीर् मा᳓म् उष᳓सः सूदयन्तु
अ᳓ति वि᳓श्वानि दुरिता᳓नि पर्षन्

02 महश्चर्कर्म्यर्वतः क्रतुप्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह᳓श् चर्कर्मि अ᳓र्वतः क्रतुप्रा᳓
दधिक्रा᳓व्णः पुरुवा᳓रस्य वृ᳓ष्णः
य᳓म् पूरु᳓भ्यो दीदिवां᳓सं न᳓ अग्निं᳓
दद᳓थुर् मित्रावरुणा त᳓तुरिम्

03 यो अश्वस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अ᳓श्वस्य दधिक्रा᳓व्णो अ᳓कारीत्
स᳓मिद्धे अग्ना᳓ उष᳓सो वि᳓उष्टौ
अ᳓नागसं त᳓म् अ᳓दितिः कृणोतु
स᳓ मित्रे᳓ण व᳓रुणेना सजो᳓षाः

04 दधिक्राव्ण इष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दधिक्रा᳓व्ण इष᳓ ऊर्जो᳓ महो᳓ य᳓द्
अ᳓मन्महि मरु᳓तां ना᳓म भद्र᳓म्
सुअस्त᳓ये व᳓रुणम् मित्र᳓म् अग्निं᳓
ह᳓वामह इ᳓न्दरं+ व᳓ज्रबाहुम्

05 इन्द्रमिवेदुभये वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् इवे᳓द् उभ᳓ये वि᳓ ह्वयन्त
उदी᳓राणा यज्ञ᳓म् उपप्रय᳓न्तः
दधिक्रा᳓म् उ सू᳓दनम् म᳓र्तियाय
दद᳓थुर् मित्रावरुणा नो अ᳓श्वम्

06 दधिक्राव्णो अकारिषम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ दधि-क्रा᳓व्णो अकारिषं
जिष्णो᳓र् अ᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत्
प्र᳓ ण आ᳓यूँषि तारिषत्