०३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उतो हि वाम्’ इति दशर्चं षष्ठं सूक्तम् । वामदेव ऋषिः । त्रिष्टुप् छन्दः । दधिक्रा देवता । आद्या द्यावापृथिव्या। अत्रानुक्रमणिका – उतो हि दश दाधिक्रं हि द्यावापृथिव्याद्या ’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

38 (334)
Heaven and Earth (1), Dadhikrā (2–10)
Vāmadeva Gautama
10 verses: triṣṭubh
This hymn and the next two (IV.39–40) are dedicated to a horse known as Dadhikrā(van), a prizewinning racer and a warhorse. Although no doubt in part referring to a real horse belonging to Trasadasyu, king of the Pūrus, it also repre sents the sacrificial horse of the great royal sacrifice, the Aśvamedha, and a symbol of Pūru, and then general Ārya, hegemony. In this capacity it is compared to the sun, in the last, triumphal verse.
What the reader will notice most, however, is the exuberance and precision of the equine imagery, emphasizing especially the headlong speed of the horse and his constant goal: groups of female animals, presumably mares. The sense of speed is enhanced by the regular use of “and” to string verses together; indeed, the hymn begins with one. Unfortunately some of the imagery is not entirely clear; see espe
cially verse 4, where some of the translation is provisional.

Although the Anukramaṇī assigns the first verse to Heaven and Earth, it is more likely that Mitra and Varuṇa are the referents of the unspecified duals.

Jamison Brereton Notes

Dadhikrā The middle vss. of this hymn are introduced by repeated utá sma (5, 6, 8, 9), varied by utá syá in 7. As noted in the published introduction, this sequence of ‘and’s adds to the sense of speed.

01 उतो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उतो᳓ हि᳓ वां दातरा᳓ स᳓न्ति पू᳓र्वा
या᳓ पूरु᳓भ्यस् त्रस᳓दस्युर् नितोशे᳓
क्षेत्रासां᳐᳓ ददथुर् उर्वरासां᳓
घनं᳓ द᳓स्युभ्यो अभि᳓भूतिम् उग्र᳓म्

02 उत वाजिनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ वाजि᳓नम् पुरुनिष्षि᳓ध्वानं
दधिक्रा᳓म् उ ददथुर् विश्व᳓कृष्टिम्
ऋजिप्यं᳓ श्येन᳓म् प्रुषित᳓प्सुम् आशुं᳓
चर्कृ᳓त्यम् अर्यो᳓ नृप᳓तिं न᳓ शू᳓रम्

03 यं सीमनु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ सीम् अ᳓नु प्रव᳓तेव द्र᳓वन्तं
वि᳓श्वः पूरु᳓र् म᳓दति ह᳓र्षमाणः
पड्भि᳓र् गृ᳓ध्यन्तम् मेधयुं᳓ न᳓ शू᳓रं
रथतु᳓रं वा᳓तम् इव ध्र᳓जन्तम्

04 यः स्मारुन्धानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ स्मारुन्धानो᳓ ग᳓धिया सम᳓त्सु
स᳓नुतरश् च᳓रति गो᳓षु ग᳓छन्
आवि᳓रृजीको विद᳓था निचि᳓क्यत्
तिरो᳓ अरति᳓म् प᳓रि आ᳓प आयोः᳓

05 उत स्मैनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्मैनं वस्त्रम᳓थिं न᳓ तायु᳓म्
अ᳓नु क्रोशन्ति क्षित᳓यो भ᳓रेषु
नीचा᳓यमानं ज᳓सुरिं न᳓ श्येनं᳓
श्र᳓वश् च अ᳓छा पशुम᳓च् च यूथ᳓म्

06 उत स्मासु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म आसु प्रथमः᳓ सरिष्य᳓न्
नि᳓ वेवेति श्र᳓यणिभी+ र᳓थानाम्
स्र᳓जं कृण्वानो᳓ ज᳓नियो न᳓ शु᳓भ्वा
रेणुं᳓ रे᳓रिहत् किर᳓णं ददश्वा᳓न्

07 उत स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्य᳓ वाजी᳓ स᳓हुरिर् ऋता᳓वा
शु᳓श्रूषमाणस् तनु᳓वा समर्ये᳓
तु᳓रं यती᳓षु तुर᳓यन्न् ऋजिप्यो᳓
अ᳓धि भ्रुवोः᳓ किरते रेणु᳓म् ऋञ्ज᳓न्

08 उत स्मास्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म अस्य तन्यतो᳓र् इव द्यो᳓र्
ऋघायतो᳓ अभियु᳓जो भयन्ते
यदा᳓ सह᳓स्रम् अभि᳓ षीम् अ᳓योधीद्
दुर्व᳓र्तुः स्मा भवति भीम᳓ ऋञ्ज᳓न्

09 उत स्मास्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म अस्य पनयन्ति ज᳓ना
जूतिं᳓ कृष्टिप्रो᳓ अभि᳓भूतिम् आशोः᳓
उतइ᳓नम् आहुः समिथे᳓ विय᳓न्तः
प᳓रा दधिक्रा᳓ असरत् सह᳓स्रैः

10 आ दधिक्राः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ +++(पुरोत्तरायणारम्भद्योतकः pegasus-प्रोष्ठपदः)+++ दधिक्राः᳓ श᳓वसा प᳓ञ्च कृष्टीः᳓+++(=मनुष्यान्)+++
सू᳓र्य इव ज्यो᳓तिषा ऽप᳓स् ततान
सहस्र-साः᳓+++(←जये, दाने)+++ शत-सा᳓ वाज्य् अ᳓र्वा
पृण᳓क्तु म᳓ध्वा स᳓म् इमा᳓ व᳓चांसि