०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इहोप यात ’ इति नवर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । इहोप नव ’ इत्यनुक्रमणिका । तृतीयसवने मैत्रावरुणस्येदमुन्नीयमानसूक्तम् । सूत्रितं च - ‘ आ त्वा वहन्त्वसवि देवमिहोप यातेत्यनुसवनम् ’ ( आश्व. श्रौ. ५. ५) इति ।।

Jamison Brereton

35 (331)
R̥bhus
Vāmadeva Gautama
9 verses: triṣṭubh
The hymn begins by addressing the R̥bhus with a patronymic Saudhanvan “sons of Sudhanvan.” This use of the patronymic and thus the emphasis on their birth accents their original humanity. But through their ritual work, they “went along the path of immortality” and so entered the community of gods (3cd). The poet returns to this theme also at the end of the hymn in verse 8. He states that the R̥bhus became gods through their work (8a) and recalls that they were human— once again through addressing them with their patronymic—before they became immortal (8d). The concluding verse then invites the divine R̥bhus together with Indra to receive the soma at the Third Pressing.
In the middle section of the hymn the poet mentions several of the R̥bhus’ great deeds (vs. 5), but his focus is on their act of dividing one soma cup into four (vss. 2–4). According to this hymn, Indra alone is the recipient of soma in the Midday Pressing, but Indra and the three R̥bhus are the principal soma recipients in the evening (vs. 7). The creation of four cups from one thus marks the transition from the single soma offering to Indra at midday to the four offerings in the evening and the institution of the Third Pressing.

01 इहोप यात - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इहो᳓प यात शवसो नपातः
सउ᳓धन्वना ऋभवो मा᳓प भूत
अस्मि᳓न् हि᳓ वः स᳓वने रत्नधे᳓यं
ग᳓मन्तु इ᳓न्द्रम् अ᳓नु वो म᳓दासः

02 आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓गन्न् ऋभूणा᳓म् इह᳓ रत्नधे᳓यम्
अ᳓भूत् सो᳓मस्य सु᳓षुतस्य पीतिः᳓
सुकृत्य᳓या य᳓त् सुअपस्य᳓या चँ
ए᳓कं विचक्र᳓ चमसं᳓ चतुर्धा᳓

03 व्यकृणोत चमसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ अकृणोत चमसं᳓ चतुर्धा᳓
स᳓खे वि᳓ शिक्ष इ᳓ति अब्रवीत
अ᳓थैत वाजा अमृ᳓तस्य प᳓न्थां
गणं᳓ देवा᳓नाम् ऋभवः सुहस्ताः

04 किम्मयः स्विच्चमस - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किम्म᳓यः स्विच् चमस᳓ एष᳓ आस
यं᳓ का᳓वियेन चतु᳓रो विचक्र᳓
अ᳓था सुनुध्वं स᳓वनम् म᳓दाय
पात᳓ र्भवो म᳓धुनः सोमिय᳓स्य

05 शच्याकर्त पितरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓चियाकर्त पित᳓रा यु᳓वाना
श᳓च्याकर्त चमसं᳓ देवपा᳓नम्
श᳓च्या ह᳓री ध᳓नुतराव् अतष्ट
इन्द्रवा᳓हाव् ऋभवो वाजरत्नाः

06 यो वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वः सुनो᳓ति अभिपित्वे᳓ अ᳓ह्नां
तीव्रं᳓ वाजासः स᳓वनम् म᳓दाय
त᳓स्मै रयि᳓म् ऋभवः स᳓र्ववीरम्
आ᳓ तक्षत वृषणो मन्दसानाः᳓

07 प्रातः सुतमपिबो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातः᳓ सुत᳓म् अपिबो हरिअश्व
मा᳓ध्यंदिनं स᳓वनं के᳓वलं ते
स᳓म् ऋभु᳓भिः पिबस्व रत्नधे᳓भिः
स᳓खीँर् याँ᳓ इन्द्र चकृषे᳓ सुकृत्या᳓

08 ये देवासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ देवा᳓सो अ᳓भवता सुकृत्या᳓
श्येना᳓ इवे᳓द् अ᳓धि दिवि᳓ निषेद᳓
ते᳓ र᳓त्नं धात शवसो नपातः
सउ᳓धन्वना अ᳓भवतामृ᳓तासः

09 यत्तृतीयं सवनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् तृती᳓यं स᳓वनं रत्नधे᳓यम्
अ᳓कृणुध्वं सुअपस्या᳓ सुहस्ताः
त᳓द् ऋभवः प᳓रिषिक्तं व एत᳓त्
स᳓म् म᳓देभिर् इन्द्रिये᳓भिः पिबध्वम्