०३०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ नकिरिन्द्र ’ इति चतुर्विंशत्यृचं नवमं सूक्तं वामदेवस्यार्षं गायत्रम् । अष्टमी चतुर्विंशी च द्वे अनुष्टुभौ । इन्द्रो देवता ।’ दिवश्चिद्धा’ इत्ययं तृच उषोदेवताक इन्द्रदेवताकश्च । तथा चानुक्रान्तं – ‘नकिश्चतुर्विंशतिर्दिवश्चित्तृच उषस्यश्च गायत्रं ह्यष्टम्यन्त्ये चानुष्टुभौ ’ इति । अतिरात्रे तृतीये पर्याये मैत्रावरुणशस्त्रे उत्तमावर्जमिदं सूक्तम् । तथा च सूत्रितं- नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेत्’ ( आश्व. श्रौ. ६. ४ ) इति ।।॥३॥

Jamison Brereton

30 (326)
Indra
Vāmadeva Gautama
24 verses: gāyatrī, except anuṣṭubh 8, 24, arranged in trcas ̥
This long hymn, constructed of triplets, begins with a celebration of Indra’s supreme power (vss. 1–3) and ends with a summary of the same (vss. 22–23, with604 IV.30
24 a pendant). In between lies a catalogue of many of Indra’s famous, and not so famous, deeds—though avoiding the most famous of these, the Vala and Vr̥tra myths (save in the repeated epithet “Vr̥tra-smasher,” vss. 1, 19, 22). The most detailed treatments are of Indra’s theft of the Sun’s wheel (vss. 4–6) and the smash
ing of Dawn’s cart (vss. 8–11), myths whose contents are not entirely clear to us, despite regular allusions to them. Both myths are also treated in X.138, and as in that hymn (see introductory remarks there), we see in both myths a reflection of Indra’s assertion of control over cosmic time by deregulating it, at least temporar
ily. This theme seems to be announced in verse 3c, immediately preceding the story of the Sun’s wheel.
The other deeds are related in cursory fashion, one per verse, and the abundance of forms of utá “and” emphasizes the additive nature of the hymn, especially in its second part. In this it resembles the catalogue hymns devoted to the Aśvins’ rescues and favors to men.

Jamison Brereton Notes

Indra

01 नकिरिन्द्र त्वदुत्तरो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किर् इन्द्र त्व᳓द् उ᳓त्तरो
न᳓ ज्या᳓याँ अस्ति वृत्रहन्
न᳓किर् एवा᳓ य᳓था तुव᳓म्

02 सत्रा ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सत्रा᳓ ते अ᳓नु कृष्ट᳓यो
वि᳓श्वा चक्रे᳓व वावृतुः
सत्रा᳓ महाँ᳓ असि श्रुतः᳓

03 विश्वे चनेदना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे चने᳓द् अना᳓ तुवा
देवा᳓स इन्द्र युयुधुः
य᳓द् अ᳓हा न᳓क्तम् आ᳓तिरः

04 यत्रोत बाधितेभ्यश्चक्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्रोत᳓ बाधिते᳓भियश्
चक्रं᳓ कु᳓त्साय यु᳓ध्यते
मुषाय᳓ इन्द्र सू᳓रियम्

05 यत्र देवाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्र देवाँ᳓ ऋघायतो᳓
वि᳓श्वाँ अ᳓युध्य ए᳓क इ᳓त्
तुव᳓म् इन्द्र वनूँ᳓र् अ᳓हन्

06 यत्रोत मर्त्याय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्रोत᳓ म᳓र्तियाय क᳓म्
अ᳓रिणा इन्द्र सू᳓रियम्
प्रा᳓वः श᳓चीभिर् ए᳓तशम्

07 किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् आ᳓द् उता᳓सि वृत्रहन्
म᳓घवन् मन्युम᳓त्तमः
अ᳓त्रा᳓ह दा᳓नुम् आ᳓तिरः

08 एतद्घेदुत वीर्यट्मिन्द्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एत᳓द् घे᳓द् उत᳓ वीरि᳓यम्
इ᳓न्द्र चक᳓र्थ पउं᳓सियम्
स्त्रि᳓यं य᳓द् दुर्हणायु᳓वं
व᳓धीर् दुहित᳓रं दिवः᳓

09 दिवश्चिद्घा दुहितरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दिव᳓श् चिद् घा दुहित᳓रम्
महा᳓न् महीय᳓माना᳐म्
उषा᳓सम् इन्द्र स᳓म् पिणक्

10 अपोषा अनसः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पोषा᳓ अ᳓नसः सरत्
स᳓म्पिष्टाद् अ᳓ह बिभ्यु᳓षी
नि᳓ य᳓त् सीं शिश्न᳓थद् वृ᳓षा

11 एतदस्या अनः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एत᳓द् अस्या अ᳓नः शये
सु᳓सम्पिष्टं वि᳓पाशि आ᳓
ससा᳓र सीम् पराव᳓तः

12 उत सिन्धुम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ सि᳓न्धुं विबालि᳓यं
वितस्थाना᳓म् अ᳓धि क्ष᳓मि
प᳓रि ष्ठा इन्द्र माय᳓या

13 उत शुष्णस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ शु᳓ष्णस्य धृष्णुया᳓
प्र᳓ मृक्षो अभि᳓ वे᳓दनम्
पु᳓रो य᳓द् अस्य सम्पिण᳓क्

14 उत दासम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ दासं᳓ कौलितर᳓म्
बृहतः᳓ प᳓र्वताद् अ᳓धि
अ᳓वाहन्न् इन्द्र श᳓म्बरम्

15 उत दासस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ दास᳓स्य वर्चि᳓नः
सह᳓स्राणि शता᳓वधीः
अ᳓धि प᳓ञ्च प्रधीँ᳓र् इव

16 उत त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्य᳓म् पुत्र᳓म् अग्रु᳓वः
प᳓रावृक्तं शत᳓क्रतुः
उक्थे᳓षु इ᳓न्द्र आ᳓भजत्

17 उत त्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्या᳓ तुर्व᳓शाय᳓दू
अस्नाता᳓रा श᳓चीप᳓तिः
इ᳓न्द्रो विद्वाँ᳓ अपारयत्

18 उत त्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्या᳓ सद्य᳓ आ᳓रिया
सर᳓योर् इन्द्र पार᳓तः
अ᳓र्णाचित्र᳓रथावधीः

19 अनु द्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु द्वा᳓ जहिता᳓ नयो
अन्धं᳓ श्रोणं᳓ च वृत्रहन्
न᳓ त᳓त् ते सुम्न᳓म् अ᳓ष्टवे

20 शतमश्मन्मयीनां पुरामिन्द्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शत᳓म् अश्मन्म᳓यीना᳐म्
पुरा᳓म् इ᳓न्द्रो वि᳓ आसियत्
दि᳓वोदासाय दाशु᳓षे

21 अस्वापयद्दभीतये सहस्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्वापयद् दभी᳓तये
सह᳓स्रा त्रिंश᳓तं ह᳓थैः
दासा᳓नाम् इ᳓न्द्रो माय᳓या

22 स घेदुतासि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ घे᳓द् उता᳓सि वृत्रहन्
समान᳓ इन्द्र गो᳓पतिः
य᳓स् ता᳓ वि᳓श्वानि चिच्युषे᳓

23 उत नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नूनं᳓ य᳓द् इन्द्रियं᳓
करिष्या᳓ इन्द्र पउं᳓सियम्
अद्या᳓ न᳓किष् ट᳓द् आ᳓ मिनत्

24 वामंवामं त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वामं᳓-वामं त आदुरे
देवो᳓ ददातु अर्यमा᳓
वाम᳓म् पूषा᳓ वाम᳓म् भ᳓गो
वामं᳓ देवः᳓ क᳓रूळती