०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ नः स्तुतः’ इति पञ्चर्चमष्टमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम्। आ नः स्तुतः इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

29 (325)
Indra
Vāmadeva Gautama
5 verses: triṣṭubh
A fairly straightforward invitation and journey hymn. Indra is urged to drive to our sacrifice, ignoring rival pressers, to drink soma jointly with us, and, as usual, to provide us with help and with wealth.

Jamison Brereton Notes

Indra

01 आ न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः ।
ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥

02 आ हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् ।
स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥

03 श्रावयेदस्य कर्णा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ ।
उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ॥

04 अच्छा यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् ।
उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्त्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥

05 त्वोतासो मघवन्निन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्तः॑ ।
भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥