०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ को अद्य’ इत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं– ‘ को अद्याष्टौ’ इति । दशरात्रे चतुर्थेऽहनि माध्यंदिने सवने स्तोमवृद्धौ मैत्रावरुणशस्त्रे आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च- स्तोमे वर्धमाने को अद्य नर्यः’ ( आश्व. श्रौ. ७, १२ ) इति ॥

Jamison Brereton

25 (321)
Indra
Vāmadeva Gautama
8 verses: triṣṭubh
Although this hymn is superficially organized like IV.23, with a series of questions in the first part of the hymn that are answered in the second part, it lacks the struc tural subtlety of IV.23, where the answers to the questions are implied, not stated, and the questions themselves are quite varied. In this hymn the first three verses pose a set of questions about the sacrificer, all but one (kásya “whose?” in vs. 3c) introduced by nominative káḥ “who?” The benefits that accrue to the sacrificer so identified are detailed in most of the rest of the hymn (vss. 4–7), benefits highlighted by the corresponding ill fate of the non-presser and non-giver described in verses 6–7. The hymn ends (vs. 8) with a comprehensive list of all who call upon Indra.
A salient feature of this hymn is the focus on the various kinds of relationships a mortal may have with Indra: especially comradeship (vss. 1, 2, 6, 7), but also fel lowship (literally yoke-fellowship, vs. 2), brotherhood (vs. 2), friendship (vs. 6), and kinship (vs. 6).

Jamison Brereton Notes

Indra

01 को अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ अद्य᳓ · न᳓रियो देव᳓काम
उश᳓न्न् इ᳓न्द्रस्य सखियं᳓ जुजोष
को᳓ वा महे᳓ अ᳓वसे पा᳓रियाय
स᳓मिद्धे अग्नउ᳓ सुत᳓सोम ईट्टे

02 को नानाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ नानाम व᳓चसा सोमिया᳓य
मनायु᳓र् वा भवति व᳓स्त उस्राः᳓
क᳓ इ᳓न्द्रस्य यु᳓जियं कः᳓ सखित्वं᳓
को᳓ भ्रात्रं᳓ वष्टि कव᳓ये क᳓ ऊती᳓

03 को देवानामवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ देवा᳓नाम् अ᳓वो अद्या᳓ वृणीते
क᳓ आदित्याँ᳓ अ᳓दितिं ज्यो᳓तिर् ईट्टे
क᳓स्याश्वि᳓नाव् इ᳓न्द्रो अग्निः᳓ सुत᳓स्य
अंशोः᳓ पिबन्ति म᳓नसा᳓विवेनम्

04 तस्मा अग्निर्भारतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्मा अग्नि᳓र् भा᳓रतः श᳓र्म यंसज्
जियो᳓क् पश्यात् सू᳓रियम् उच्च᳓रन्तम्
य᳓ इ᳓न्द्राय सुन᳓वामे᳓ति आ᳓ह
न᳓रे न᳓र्याय नृ᳓तमाय नॄणा᳓म्+

05 न तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ तं᳓ जिनन्ति बह᳓वो न᳓ दभ्रा᳓
उरु᳓ अस्मा अ᳓दितिः श᳓र्म यंसत्
प्रियः᳓ सुकृ᳓त् प्रिय᳓ इ᳓न्द्रे मनायुः᳓
प्रियः᳓ सुप्रावीः᳓ प्रियो᳓ अस्य सोमी᳓

06 सुप्राव्यः प्राशुषाळेष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुप्रावि᳓यः प्राशुषा᳓ळ् एष᳓ वीरः᳓
सु᳓ष्वेः पक्तिं᳓ कृणुते के᳓वले᳓न्द्रः
ना᳓सुष्वेर् आपि᳓र् न᳓ स᳓खा न᳓ जामि᳓र्
दुष्प्रावि᳓यो अवहन्ते᳓द् अ᳓वाचः

07 न रेवता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ रेव᳓ता पणि᳓ना सख्य᳓म् इ᳓न्द्रो
अ᳓सुन्वता सुतपाः᳓ सं᳓ गृणीते
आ᳓स्य वे᳓दः खिद᳓ति ह᳓न्ति नग्नं᳓
वि᳓ सु᳓ष्वये पक्त᳓ये के᳓वलो भूत्

08 इन्द्रं परेऽवरे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रम् प᳓रे अ᳓वरे मध्यमा᳓स
इ᳓न्द्रं या᳓न्तो अ᳓वसितास इ᳓न्द्रम्
इ᳓न्द्रं क्षिय᳓न्त उत᳓ यु᳓ध्यमाना
इ᳓न्द्रं न᳓रो वाजय᳓न्तो हवन्ते