०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वं महाँ इन्द्र तुभ्यम्’ इत्येकविंशत्यृचं सप्तमं सूक्तं वामदेवस्यार्षम् । अत्रेयमनुक्रमणिका- त्वं महाँ असिक्न्यामेकपदा ’ इति । ‘असिक्न्यां यजमानो न होता’ इत्येकपदा विराट् शिष्टा विंशतिः त्रिष्टुभः । इन्द्रो देवता । समूळ्हे दशरात्रेऽष्टमेऽहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् । तथा च सूत्रितं – त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम्’ ( आश्व. श्रौ. ८.७ ) इति । इन्द्रस्य वृत्रघ्नः ‘ त्वं महाँ’ इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च-’ त्वं महाँ इन्द्र तुभ्यं ह क्षाः सत्राहणम् ’ ( आश्व. श्रौ. ३. ८) इति ।।

Jamison Brereton

17 (313)
Indra
Vāmadeva Gautama
21 verses: triṣṭubh, except ekapadā virāj 15
The hymn begins with the simple declaration “You, Indra, are great,” and in some sense the rest of the hymn just develops this statement. The first section of the hymn (vss. 1–8) treats Indra’s deeds in the past (though with some interludes in the pres ent, esp. vs. 5), particularly the Vr̥tra slaying and its cosmic repercussions. Verse 8 sums up this section by detailing the qualities that make Indra worthy of our atten tion. In verses 9–13 Indra’s abilities to conquer foes and win prizes are celebrated for their present relevance. The following two verses (14 and 15, its stunted single pāda adjunct) make a brief and quite obscure foray into the Etaśa myth. The final five verses (16–20), before the last (21) repeated from IV.16.21, express our hopes for Indra’s bounty and aid, and, especially, our longing for him to be in affectionate relationship with us.
Several themes surface from time to time in the hymn. Indra is often called maghávan “bounteous (patron)” throughout (vss. 7, 8, 9, 11, 13 [twice], 20), even though our prayers for goods and services do not become insistent until the end. More striking is the motif of Indra’s birth and, especially, the uncertainty about the identity of his father. His birth in mentioned in verses 2, 4, 7, and 12. In verse 4 it is said that Heaven is considered to be his begetter, but “is considered” throws that statement into question, and it is not even clear whether “the best craftsman,” to whom the act is (also?) ascribed, is Heaven or not. It may well be Tvaṣṭar, called “good craftsman” elsewhere (I.85.9) and in apparent parental relationship with Indra in some passages (e.g., III.48.2–4; see also the next hymn, IV.18.3). Verse 12ab casts even more doubt on his parentage, which Indra himself seems not to be clear about. This birth motif foreshadows the next hymn, the famous IV.18 featuring the direct speech of Indra’s mother at the time of his birth.

Jamison Brereton Notes

Indra

01 त्वं महाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् महाँ᳓ इन्दर+ तु᳓भ्य° ह क्षा᳓
अ᳓नु क्षत्र᳓म् मंह᳓ना मन्यत द्यउः᳓
तुवं᳓ वृत्रं᳓ · श᳓वसा जघन्वा᳓न्
सृजः᳓ सि᳓न्धूँर् अ᳓हिना जग्रसाना᳓न्

02 तव त्विषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व त्विषो᳓ ज᳓निमन् रेजत द्यउ᳓
रे᳓जद् भू᳓मिर् भिय᳓सा स्व᳓स्य मन्योः᳓
ऋघाय᳓न्त सुभु᳓वः प᳓र्वतास
आ᳓र्दन् ध᳓न्वानि सर᳓यन्त आ᳓पः

03 भिनद्गिरिं शवसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भिन᳓द् गिरिं᳓ श᳓वसा व᳓ज्रम् इष्ण᳓न्न्
आविष्कृण्वानः᳓ सहसान᳓ ओ᳓जः
व᳓धीद् वृत्रं᳓ व᳓ज्रेण मन्दसानः᳓
स᳓रन्न् आ᳓पो ज᳓वसा हत᳓वृष्णीः

04 सुवीरस्ते जनिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुवी᳓रस् ते जनिता᳓ मन्यत द्यउ᳓र्
इ᳓न्द्रस्य कर्ता᳓ सुअपस्तमो भूत्
य᳓ ईं जजा᳓न स्वरि᳓यं सुव᳓ज्रम्
अ᳓नपच्युतं स᳓दसो न᳓ भू᳓म

05 य एक - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ ए᳓क इ᳓च् च्याव᳓यति प्र᳓ भू᳓मा
रा᳓जा कृष्टीना᳓म् पुरुहूत᳓ इ᳓न्द्रः
सत्य᳓म् एनम् अ᳓नु वि᳓श्वे मदन्ति
रातिं᳓ देव᳓स्य गृणतो᳓ मघो᳓नः

06 सत्रा सोमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्रा᳓ सो᳓मा अभवन्न् अस्य वि᳓श्वे
सत्रा᳓ म᳓दासो बृहतो᳓ म᳓दिष्ठाः
सत्रा᳓भवो व᳓सुपतिर् व᳓सूनां
द᳓त्रे वि᳓श्वा अधिथा इन्द्र कृष्टीः᳓

07 त्वमध प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अ᳓ध प्रथमं᳓ जा᳓यमानो
अ᳓मे वि᳓श्वा अधिथा इन्द्र कृष्टीः᳓
तुव᳓म् प्र᳓ति प्रव᳓त आश᳓यानम्
अ᳓हिं व᳓ज्रेण मघवन् वि᳓ वृश्चः

08 सत्राहणं दाधृषिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सत्राह᳓णं दा᳓धृषिं तु᳓म्रम् इ᳓न्द्रम्
महा᳓म् अपारं᳓ वृषभं᳓ सुव᳓ज्रम्
ह᳓न्ता यो᳓ वृत्रं᳓ स᳓नितोत᳓ वा᳓जं
दा᳓ता मघा᳓नि मघ᳓वा सुरा᳓धाः

09 अयं वृतश्चातयते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ वृ᳓तश् चातयते समीची᳓र्
य᳓ आजि᳓षु मघ᳓वा शृण्व᳓ ए᳓कः
अयं᳓ वा᳓जम् भरति यं᳓ सनो᳓ति
अस्य᳓ प्रिया᳓सः सखिये᳓ सियाम

10 अयं शृण्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ शृण्वे अ᳓ध ज᳓यन्न् उत᳓ घ्न᳓न्न्
अय᳓म् उत᳓ प्र᳓ कृणुते युधा᳓ गाः᳓
यदा᳓ सत्यं᳓ कृणुते᳓ मन्यु᳓म् इ᳓न्द्रो
वि᳓श्वं दॄळ्ह᳓म्+ भयत ए᳓जद् अस्मात्

11 समिन्द्रो गा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् इ᳓न्द्रो गा᳓ अजयत् सं᳓ हि᳓रण्या
स᳓म् अश्विया᳓ मघ᳓वा यो᳓ ह पूर्वीः᳓
एभि᳓र् नृ᳓भिर् नृ᳓तमो अस्य शाकइ᳓
रायो᳓ विभक्ता᳓ सम्भर᳓श् च व᳓स्वः

12 कियत्स्विदिन्द्रो अध्येति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓यत् स्विद् इ᳓न्द्रो अ᳓धि एति मातुः᳓
कि᳓यत् पितु᳓र् जनितु᳓र् यो᳓ जजा᳓न
यो᳓ अस्य शु᳓ष्मम् मुहुकइ᳓र् इ᳓यर्ति
वा᳓तो न᳓ जूत᳓ स्तन᳓यद्भिर् अभ्रइः᳓

13 क्षियन्तं त्वमक्षियन्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षिय᳓न्तं त्वम् अ᳓क्षियन्तं कृणोति
इ᳓यर्ति रेणु᳓म् मघ᳓वा समो᳓हम्
विभञ्जनु᳓र् अश᳓निमाँ इव द्यउ᳓र्
उत᳓ स्तोता᳓रम् मघ᳓वा व᳓सौ धात्

14 अयं चक्रमिषणत्सूर्यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ चक्र᳓म् इषणत् सू᳓रियस्य
नि᳓ ए᳓तशं रीरमत् ससृमाण᳓म्
आ᳓ कृष्ण᳓ ईं जुहुराणो᳓ जिघर्ति
त्वचो᳓ बुध्ने᳓ र᳓जसो अस्य᳓ यो᳓नौ

15 असिक्न्यां यजमानो - एकपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सिक्नियां य᳓जमानो न᳓ हो᳓ता

16 गव्यन्त इन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गव्य᳓न्त इ᳓न्द्रं सखिया᳓य वि᳓प्रा
अश्वाय᳓न्तो वृ᳓षणं वाज᳓यन्तः
जनीय᳓न्तो जनिदा᳓म् अ᳓क्षितोतिम्
आ᳓ च्यावयामो अवते᳓ न᳓ को᳓शम्

17 त्राता नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्राता᳓ नो बोधि द᳓दृशान आपि᳓र्
अभिख्याता᳓ मर्डिता᳓ सोमिया᳓नाम्
स᳓खा पिता᳓ पितृ᳓तमः पितॄणां᳓
क᳓र्तेम् उलोक᳓म्† उशते᳓ वयोधाः᳓

18 सखीयतामविता बोधि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सखीयता᳓म् अविता᳓ बोधि स᳓खा
गृणान᳓ इन्द्र स्तुवते᳓ व᳓यो धाः
वयं᳓ हि᳓ आ᳓ ते चकृमा᳓ सबा᳓ध
आभिः᳓ श᳓मीभिर् मह᳓यन्त इन्द्र

19 स्तुत इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुत᳓ इ᳓न्द्रो मघ᳓वा य᳓द् ध वृत्रा᳓
भू᳓रीणि ए᳓को अप्रती᳓नि हन्ति
अस्य᳓ प्रियो᳓ जरिता᳓ य᳓स्य श᳓र्मन्
न᳓किर् देवा᳓ वार᳓यन्ते न᳓ म᳓र्ताः

20 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ न इ᳓न्द्रो मघ᳓वा विरप्शी᳓
क᳓रत् सत्या᳓ चर्षणीधृ᳓द् अनर्वा᳓
तुवं᳓ रा᳓जा जनु᳓षां धेहि अस्मे᳓
अ᳓धि श्र᳓वो मा᳓हिनं य᳓ज् जरित्रे᳓

21 नू ष्थुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू᳐᳓ ष्टुत᳓ इन्दर+ नू᳓ गृणान᳓
इ᳓षं जरित्रे᳓ नदि᳓यो न᳓ पीपेः
अ᳓कारि ते हरिवो ब्र᳓ह्म न᳓व्यं
धिया᳓ सियाम रथि᳓यः सदासाः᳓