०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“यस्त्वामग्ने ’ इति षडृचं द्वितीयं सूक्तम् । वामदेव ऋषिः । त्रैष्टुभं छन्दः । अग्निर्देवता । ‘ यस्त्वाम्’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥

Jamison Brereton

12 (308)
Agni
Vāmadeva Gautama
6 verses: triṣṭubh
The first half of this hymn (vss. 1–3) describes the rewards Agni gives to a pious sacrificer. The second half (vss. 4–6) is entirely different: it begs for release from unspecified offenses done by us, and although Agni is addressed in the vocative in all three verses, the tone is distinctly Ādityan, reminiscent of Vasiṣṭha’s pleas for forgiveness from the most formidable of the Ādityas, Varuṇa, in Maṇḍala VII. In fact, the last verse (6) has a plural addressee (“good ones worthy of the sacrifice”) in addition to Agni, and the verse is repeated exactly in X.126.8, an insistently Ādityan hymn.

Jamison Brereton Notes

Agni

01 यस्त्वामग्न इनधते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा᳓म् अग्न इन᳓धते यत᳓स्रुक्
त्रि᳓स् ते अ᳓न्नं कृण᳓वत् स᳓स्मिन् अ᳓हन्
स᳓ सु᳓ द्युम्नइ᳓र् अभि᳓ अस्तु प्रस᳓क्षत्
त᳓व क्र᳓त्वा जातवेदश् चिकित्वा᳓न्

02 इध्मं यस्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इध्मं᳓ य᳓स् ते जभ᳓रच् छश्रमाणो᳓
महो᳓ अग्ने अ᳓नीकम् आ᳓ सपर्य᳓न्
स᳓ इधानः᳓ प्र᳓ति दोषा᳓म् उषा᳓सम्
पु᳓ष्यन् रयिं᳓ सचते घ्न᳓न्न् अमि᳓त्रान्

03 अग्निरीशे बृहतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् ईशे बृहतः᳓ क्षत्रि᳓यस्य
अग्नि᳓र् वा᳓जस्य परम᳓स्य रायः᳓
द᳓धाति र᳓त्नं विधते᳓ य᳓विष्ठो
वि᳓ आनुष᳓ङ् म᳓र्तियाय स्वधा᳓वान्

04 यच्चिद्धि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓च् चिद् धि᳓ ते पुरुषत्रा᳓ यविष्ठ
अ᳓चित्तिभिश् चकृमा᳓ क᳓च् चिद् आ᳓गः
कृधी᳓ षु᳓ अस्माँ᳓ अ᳓दितेर् अ᳓नागान्
वि᳓ ए᳓नांसि शिश्रथो वि᳓ष्वग् अग्ने

05 महश्चिदग्न एनसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह᳓श् चिद् अग्न ए᳓नसो अभी᳓क
ऊर्वा᳓द् देवा᳓नाम् उत᳓ म᳓र्तियानाम्
मा᳓ ते स᳓खायः स᳓दम् इ᳓द् रिषाम
य᳓छा तोका᳓य त᳓नयाय शं᳓ योः᳓

06 यथा ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓था ह त्य᳓द् वसवो गौरि᳓यं चित्
पदि᳓ षिता᳓म् अ᳓मुञ्चता यजत्राः
एवो᳓ षु᳓ अस्म᳓न् मुञ्चता वि᳓ अं᳓हः
प्र᳓ तारि अग्ने प्रतरं᳓ न आ᳓युः