०१०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ने तमद्य’ इत्यष्टर्चं दशमं सूक्तं वामदेवस्यार्षम् आग्नेयम् । तथा चानुक्रमणिका - अग्ने तमद्य पदपाङ्क्तं पञ्चमी महापदपङ्क्तिरन्त्योष्णिक् चतुर्थी षष्ठ्युपान्त्या वा सप्तम्याः पञ्चकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पञ्चकः पादश्चतुष्कः सप्तकस्त्रैष्टुभश्च ’ इति । इदं कृत्स्नमपि सूक्तं पदपङ्क्तिच्छन्दस्कं ’ पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः’ इत्युक्तलक्षणोपेतत्वात्। पञ्चमी ’ तव स्वादिष्ठा’ इत्येषा महापदपङ्क्तिः ‘पञ्च पञ्चकाः षट्कश्चैकः ’ इति लक्षणसद्भावात् । अन्त्या शिवा नः सख्या ’ इत्येषोष्णिक्छन्दस्का । चतुर्थीषष्ठीसप्तम्यः ‘ आभीष्टे अद्य’, ’ घृतं न पूतं ‘, ’ कृतं चिद्धि ष्मा ’ इत्येतास्तिस्र उष्णिहः पदपङ्क्तयो वा । अत्र सप्तम्यष्टम्योः पदपङ्क्त्युष्णिहोः परिभाषोक्तपादविच्छेदापवादाय प्रकारान्तरेण विच्छेदः कृतः । दशमेऽहनि इदं सूक्तमाज्यशस्त्रम् । सूत्रितं च- ‘ अग्ने तमद्याश्वं न स्तोमैरित्याज्यम्’ (आश्व. श्रौ. ८. १२) इति । पिण्डपितृयज्ञे ’ अग्ने तमद्य’ इत्यनयाग्निं प्रत्यागच्छेत् । सूत्रितं च - ‘अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैः ’ ( आश्व. श्रौ. २. ७ ) इति । पौनराधेयिक्यां स्विष्टकृत्येषैव याज्या । सूत्रितं च - ‘ अग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये ’ ( आश्व. श्रौ. २. ८) इति ।।

Jamison Brereton

10 (306)
Agni
Vāmadeva Gautama
8 verses: padapaṅkti, except mahāpadapaṅkti 5
This uncomplicated hymn begins with the sacrificial here-and-now and the poet’s hope for the success of the sacrifice currently being performed. He then praises Agni’s participation in the sacrifice, his brilliant appearance, and his protection of his mortal worshiper, ending with a prayer for good partnership with the gods and a strong statement of the umbilical tie between gods and men, as mediated through the sacrificial Agni. The image of the sacrifice as the shared udder of gods and men is also found in nearby Agni hymns: IV.7.7 and by implication IV.5.7.
Although the content of the hymn is straightforward, the meter is quite unusual, indeed confined to this one hymn (see Oldenberg 1888: 98; Arnold 1905: 239–40). It is thus not surprising that the Anukramaṇī’s characterization of it, reproduced in the heading above, is not illuminating and is in fact somewhat misleading. Each verse consists of a series of five-syllable pādas (three per verse, except for vs. 5 containing four) followed by a single triṣṭubh pāda. The short pentads tend to pres
ent abbreviated syntactic constituents, such as similes or tightly organized noun phrases, while the culminating triṣṭubh provides the frame into which the earlier mosaic pieces can be fitted. However, as the hymn progresses, the group of pen tad pādas begins to operate independently of the triṣṭubh finale. In this hymn the medium is in many ways the message.

Jamison Brereton Notes

Agni On the unusual meter of this hymn and its interaction with the syntactic and semantic organization, see published introduction.

01 अग्ने तमद्याश्वम् - पदपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने त᳓म् अद्य᳓
अ᳓श्वं न᳓ स्तो᳓मैः
क्र᳓तुं न᳓ भद्रं᳓
हृदिस्पृ᳓शम् ऋधिया᳓मा त ओ᳓हैः

02 अधा ह्यग्ने - पदपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा हि᳓ अग्ने
क्र᳓तोर् भद्र᳓स्य
द᳓क्षस्य साधोः᳓
रथी᳓र् ऋत᳓स्य बृहतो᳓ बभू᳓थ

03 एभिर्नो अकैड़्र्भवा - पदपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

एभि᳓र् नो अर्कइ᳓र्
भ᳓वा नो अर्वा᳓ङ्
सु᳓वर् ण᳓ ज्यो᳓तिः
अ᳓ग्ने वि᳓श्वेभिः सुम᳓ना अ᳓नीकैः

04 आभिष्थे अद्य - पदपङ्क्तिः उष्णिग्वा

विश्वास-प्रस्तुतिः ...{Loading}...

आभि᳓ष् टे अद्य᳓
गीर्भि᳓र् गृण᳓न्तो
अ᳓ग्ने दा᳓शेम
प्र᳓ ते दिवो᳓ न᳓ स्तनयन्ति शु᳓ष्माः

05 तव स्वादिष्टाग्ने - महापदपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व स्वा᳓दिष्ठा
ग्ने सं᳓दृष्टिर्
दा᳓ चिद् अ᳓ह्न
दा᳓ चिद् अक्तोः᳓
रिये᳓ रुक्मो᳓ न᳓ रोचत उपाके᳓

06 घृतं न - पदपङ्क्तिः उष्णिग्वा

विश्वास-प्रस्तुतिः ...{Loading}...

घृतं᳓ न᳓ पूतं᳓
तनू᳓र् अरेपाः᳓
शु᳓चि हि᳓रण्यम्
त᳓त् ते रुक्मो᳓ न᳓ रोचत स्वधावः

07 कृतं चिद्धि - पदपङ्क्तिः उष्णिग्वा

विश्वास-प्रस्तुतिः ...{Loading}...

कृतं᳓ चिद् धि᳓ ष्मा
स᳓नेमि द्वे᳓षो
अ᳓ग्न इनो᳓षि म᳓र्तात्
इत्था᳓ य᳓जमानाद् ऋतावः

08 शिवा नः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवा᳓ नः सख्या᳓
स᳓न्तु भ्रात्रा᳓
अ᳓ग्ने देवे᳓षु युष्मे᳓
सा᳓ नो ना᳓भिः स᳓दने स᳓स्मिन् ऊ᳓धन्