००९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ने मृळ ‘इत्यष्टर्चं नवमं सूक्तं वामदेवस्यार्षं गायत्रीच्छन्दस्कमग्निदेवताकम् । अनुक्रान्तं च - ’ अग्ने मृळ ’ इति । द्वितीये छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । सूत्रितं च ‘_ ‘ क्रीळं वः शर्धोऽग्ने मृळेत्याग्निमारुतम्’ (आश्व. श्रौ. ८. १०) इति ॥

Jamison Brereton

9 (305)
Agni
Vāmadeva Gautama
8 verses: gāyatrī
Like II.1 and II.11, this short hymn enumerates Agni’s ritual roles by identifying him with various priests, but it is considerably simpler and more straightforward than either of those two hymns. The order of the priestly offices here is close to that found in II.1.

01 अग्ने मृळ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने मॄळ᳓+ महाँ᳓ असि
य᳓ ईम् आ᳓ देवयुं᳓ ज᳓नम्
इये᳓थ बर्हि᳓र् आस᳓दम्

02 स मानुषीषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मा᳓नुषीषु दूळ᳓भो
विक्षु᳓ प्रावी᳓र् अ᳓मर्तियः
दूतो᳓ वि᳓श्वेषा᳐म् भुवत्

03 स सद्म - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ स᳓द्म प᳓रि णीयते
हो᳓ता मन्द्रो᳓ दि᳓विष्टिषु
उत᳓ पो᳓ता नि᳓ षीदति

04 उत ग्ना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ ग्ना᳓ अग्नि᳓र् अध्वर᳓
उतो᳓ गृह᳓पतिर् द᳓मे
उत᳓ ब्रह्मा᳓ नि᳓ षीदति

05 वेषि ह्यध्वरीयतामुपवक्ता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓षि हि᳓ अध्वरीयता᳓म्
हव्या᳓ च मा᳓नुषाणा᳐म्
उपवक्ता᳓ ज᳓नाना᳐म्

06 वेषीद्वस्य दूत्यण्ट् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓षी᳓द् उ अस्य दूति᳓यं
हव्य᳓म् म᳓र्तस्य वो᳓ळ्हवे
य᳓स्य जु᳓जोषो अध्वर᳓म्

07 अस्माकं जोष्यध्वरमस्माकम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कं जोषि अध्वर᳓म्
अस्मा᳓कं यज्ञ᳓म् अङ्गिरः
अस्मा᳓कं शृणुधी ह᳓वम्

08 परि ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि ते दूळ᳓भो र᳓थो
अस्माँ᳓ अश्नोतु विश्व᳓तः
ये᳓न र᳓क्षसि दाशु᳓षः