००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘दूतं वः’ इत्यष्टर्चमष्टमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । तथा चानुक्रम्यते – ‘दूतं वोऽष्टौ गायत्रं तु’ इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च सूत्रितं - दूतं व इत्याग्निमारुतम् ’ (आश्व. श्रौ. ८.९ ) इति । इदमादिके द्वे सूक्ते प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि विनियुक्ते । सूत्रितं च - ‘ अग्ने पावक दूतं व इति सूक्ते’ (आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

8 (304)
Agni
Vāmadeva Gautama
8 verses: gāyatrī
This hymn shares some phraseology and themes with the immediately preceding IV.7, especially Agni’s role as messenger, but it is far less complex than that hymn. It is also unlike that hymn in its prayers for rich goods from Agni in exchange for ritual service.

Jamison Brereton Notes

Agni As noted in the published introduction, this hymn shares much phraseology with the immediately preceding IV.7.

01 दूतं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दूतं᳓ वो विश्व᳓वेदसं
हव्यवा᳓हम् अ᳓मर्तियम्
य᳓जिष्ठम् ऋञ्जसे गिरा᳓

02 स हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हि᳓ वे᳓दा व᳓सुधितिम्
महाँ᳓ आरो᳓धनं दिवः᳓
स᳓ देवाँ᳓ ए᳓ह᳓ वक्षति

03 स वेद - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वेद देव᳓ आन᳓मं
देवाँ᳓ ऋतायते᳓ द᳓मे
दा᳓ति प्रिया᳓णि चिद् व᳓सु

04 स होता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ हो᳓ता से᳓द् उ दूति᳓यं
चिकित्वाँ᳓ अन्त᳓र् ईयते
विद्वाँ᳓ आरो᳓धनं दिवः᳓

05 ते स्याम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ सियाम ये᳓ अग्न᳓ये
ददाशु᳓र् हव्य᳓दातिभिः
य᳓ ईम् पु᳓ष्यन्त इन्धते᳓

06 ते राया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ राया᳓ ते᳓ सुवी᳓रियैः
ससवां᳓सो वि᳓ शृण्विरे
ये᳓ अग्ना᳓ दधिरे᳓ दु᳓वः

07 अस्मे रायो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ रा᳓यो दिवे᳓-दिवे
सं᳓ चरन्तु पुरुस्पृ᳓हः
अस्मे᳓ वा᳓जास ईरताम्

08 स विप्रश्चर्षणीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वि᳓प्रश् चर्षणीनां᳐᳓
श᳓वसा मा᳓नुषाणा᳐म्
अ᳓ति क्षिप्रे᳓व विध्यति