००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयमिह ’ इत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्टुभः शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम् –’ अयमिहादौ जगती पञ्चानुष्टुभः’ इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयने ‘अयमिह ’ इति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् - ’ अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये’ (आश्व. श्रौ. २. १७) इति ।

Jamison Brereton

7 (303)
Agni
Vāmadeva Gautama
11 verses: jagatī 1, anuṣṭubh 2–6, triṣṭubh 7–11
Although this hymn consists of verses in three different meters, it was clearly con ceived as a unity, as was already seen by Oldenberg (1888: 153). The hymn begins, as often, with the ritual installation of the current sacrificial fire, which is set against the backdrop of the primal installation of Agni, treated in verses 1–5, in a non insistent ring structure. Verses 6 and 7, though in different meters, express the cen tral mysteries of Agni and therefore define a sort of omphalos. Verse 6 is structured as a series of paradoxes concerning the nature of fire. Verse 7, quite reminiscent of the omphalos verse IV.5.7, refers to the elements of the sacrifice in riddling fashion. The hymn then turns to Agni’s role as messenger between Earth and Heaven (vss. 8–9, 11, first mentioned in vs. 3), with some vivid metaphorical description of fire’s appearance and its consuming of flammable “food” (vss. 9–11).

Jamison Brereton Notes

Agni Intro.: The published introduction. states that Agni’s role as messenger is first mentioned in vs. 3; this should be corrected to vs. 4.

01 अयमिह प्रथमो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् +++(अग्निः/ विषुवसूर्यो वा)+++ इह᳓ प्रथमो᳓ धायि+++(←धा)+++ धातृ᳓भिर्
हो᳓ता य᳓जिष्ठो अध्वरे᳓ष्व् ई᳓ड्यः ।
य᳓म् अ᳓प्नवानो भृ᳓गवो विरुरुचु᳓र्
व᳓नेषु +++(→आश्रमेषु)+++ चित्रं᳓, विभ्वं᳙ विशे᳓-विशे ॥

02 अग्ने कदा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने कदा᳓ त आनुष᳓ग्
भु᳓वद् देव᳓स्य चे᳓तनम्
अ᳓धा हि᳓ त्वा जगृभ्रिरे᳓
म᳓र्तासो विक्षु᳓ ई᳓डियम्

03 ऋतावानं विचेतसम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वानं वि᳓चेतसम्
प᳓श्यन्तो द्या᳓म् इव स्तृ᳓भिः
वि᳓श्वेषाम् अध्वरा᳓णां᳐
हस्कर्ता᳓रं द᳓मे-दमे

04 आशुं दूतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आशुं᳓ दूतं᳓ विव᳓स्वतो
वि᳓श्वा य᳓श् चर्षणी᳓र् अभि᳓
आ᳓ जभ्रुः केतु᳓म् आय᳓वो
भृ᳓गवाणं विशे᳓-विशे

05 तमीं होतारमानुषक्चिकित्वांसम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् ईं हो᳓तारम् आनुष᳓क्
चिकित्वां᳓सं नि᳓ षेदिरे
रण्व᳓म् पवाक᳓शोचिषं+
य᳓जिष्ठं सप्त᳓ धा᳓मभिः

06 तं शश्वतीषु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ श᳓श्वतीषु मातृ᳓षु
व᳓न आ᳓ वीत᳓म् अ᳓श्रितम्
चित्रं᳓ स᳓न्तं गु᳓हा हितं᳓
सुवे᳓दं कूचिदर्थि᳓नम्

07 ससस्य यद्वियुता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सस᳓स्य य᳓द् वि᳓युता स᳓स्मिन्न् ऊ᳓धन्न्
ऋत᳓स्य धा᳓मन् रण᳓यन्त देवाः᳓
महाँ᳓ अग्नि᳓र् न᳓मसा रात᳓हव्यो
वे᳓र् अध्वरा᳓य स᳓दम् इ᳓द् ऋता᳓वा

08 वेरध्वरस्य दूत्यानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓र् अध्वर᳓स्य दूति᳓यानि विद्वा᳓न्
उभे᳓ अन्ता᳓ रो᳓दसी संचिकित्वा᳓न्
दूत᳓ ईयसे प्रदि᳓व उराणो᳓
विदु᳓ष्टरो दिव᳓ आरो᳓धनानि

09 कृष्णं त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृष्णं᳓ त ए᳓म रु᳓शतः पुरो᳓ भा᳓श्
चरिष्णु᳓ अर्चि᳓र् व᳓पुषाम् इ᳓द् ए᳓कम्
य᳓द् अ᳓प्रवीता द᳓धते ह ग᳓र्भं
सद्य᳓श् चिज् जातो᳓ भ᳓वसी᳓द् उ दूतः᳓

10 सद्यो जातस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सद्यो᳓ जात᳓स्य द᳓दृशानम् ओ᳓जो
य᳓द् अस्य वा᳓तो अनुवा᳓ति शोचिः᳓
वृण᳓क्ति तिग्मा᳓म् अतसे᳓षु जिह्वां᳓
स्थिरा᳓ चिद् अ᳓न्ना दयते वि᳓ ज᳓म्भैः

11 तृषु यदन्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तृषु᳓ य᳓द् अ᳓न्ना तृषु᳓णा वव᳓क्ष
तृषुं᳓ दूतं᳓ कृणुते यह्वो᳓ अग्निः᳓
वा᳓तस्य मेळिं᳓ सचते निजू᳓र्वन्न्
आशुं᳓ न᳓ वाजयते हिन्वे᳓ अ᳓र्वा