००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ कृणुष्व’ इति पञ्चदशर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभं रक्षोहाग्निदेवताकम् । ‘ कृणुष्व पञ्चोना राक्षोघ्नम्’ इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोः सूक्तविनियोगः । प्रवर्ग्येऽभिष्टवे ‘ कृणुष्व पाजः’ इत्याद्याः पञ्चर्चो विनियुक्ताः । सूत्रितं च – कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च ’ ( आश्व. श्रौ. ४. ६ ) इति ॥

Jamison Brereton

4 (300)
Agni the Demon-Smasher
Vāmadeva Gautama
15 verses: triṣṭubh
The Anukramaṇī names Agni Demon-Smasher (Rakṣo-han) as the divinity of this hymn. This ascription is certainly apt for the first five verses with their vividly hos tile imagery, but starting with verse 6 the benefits that accrue to those who properly worship Agni are described (vss. 6–10). We identify ourselves as those worshipers in verses 8–9, and in verse 11 (see also vs. 8) the poet boasts of his hereditary poetic gifts, which enable him to get the attention and good favor of Agni. He explicitly identifies the source of his poetic skill as his father Gotama, but implicitly, through his phraseology, he also identifies himself with the Aṅgirases, the legendary poets who broke open the treasure cave of Vala, a myth that is much on the mind of the poet of these Agni hymns in IV (see, e.g., IV.1.13–17; 2.15–17; 3.11). The remaining verses (12–15) call on Agni to protect us with his protectors (presumably his flames) and to grant other blessings. The demons return in the last half verse (15cd).

Jamison Brereton Notes

Agni the Demon-Smasher

01 कृणुष्व पाजः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒णु॒ष्व पाजः॒ (=तेजः) प्रसि॑ति॒न् (=जालं) न पृ॒थ्वीं
या॒हि राजे॒वाम॑वा॒ꣳ॒ (=सहवान्) इभे॑न ।
तृ॒ष्वीम् (=वेगम्) अनु॒ प्रसि॑तिं (=सैन्यं) द्रूणा॒नो
ऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

02 तव भ्रमास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑
स्पृश धृष॒ता (=अभिभवता) शोशु॑चानः ।
तपूꣳ॑ष्य् अग्ने जु॒ह्वा॑ पत॒ङ्गान्
अस॑न्दितो॒ (=अनिरुद्धः) वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

03 प्रति स्पशो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒
भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्य् अग्ने॒
माकि॑ष्टे॒ व्यथि॒र् (=बाधकः) आद॑धर्षीत् ॥

04 उदग्ने तिष्ट - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अ॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒
न्य् अ॑मित्राꣳ॑ ओषतात् (=प्रदह) तिग्म-हेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे
नी॒चा तं ध॑क्ष्य् (=दह) अत॒सं (=काष्ठविशेषः) न शुष्क॑म् ॥

05 ऊर्ध्वो भव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वो भ॑व प्रति॑ विध्या-
+ध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒-जूनां॑(=प्रेरकाणां)
जा॒मिम् (=ज्ञातिं) अजा॑मिं॒ प्र मृ॑णीहि॒ (=जहि) शत्रून्॑ ॥

06 स ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒
य ईव॑ते॒(=गमनशीलाय) ब्रह्म॑णे (=पुष्टाय) गा॒तुम् ऐर॑त् (=प्रेरयति)
विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो
द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ (=गृहान्) अ॒भि द्यौ॑त् (=द्योतस्व)

07 सेदग्ने अस्तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सेद्(=स+इत्) अ॑ग्ने अस्तु सु॒भग॑स् सु॒दानु॒र्
यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒, स्व आयु॑षि दुरो॒णे (=गृहे) (तिष्ठतु)
विश्वेद् अ॑स्मै सु॒दिना॒ सा ऽस॑द्(=भूयात्) इ॒ष्टिः ॥

08 अर्चामि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्चा॑मि ते सुम॒तिं, घोष्य् (=घोषवती) अ॒र्वाक्(=पुरतः)
सम्+ ते॑ वा॒वाता॑(=पुनः पुनः) जरताम् (=स्तौतु) इ॒यं गीः ।
स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒(=अलङ्कुर्याम)
ऽस्मे(=अस्मासु) क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् (=अन्वहम्)

09 इह त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ह त्वा॒ भूर्या च॑रे॒द् उप॒ (आ)त्मन्
दोषा॑वस्तर् (=रात्रावहः) दीदि॒वाꣳस॒म् अनु॒ द्यून्(=अन्वहम्)
क्रीड॑न्तस् त्वा सु॒मन॑सस् सपेम(=परिचरेमा)
+अ॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥

10 यस्त्वा स्वश्वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा॒ स्व्-अश्व॑स् सुहिर॒ण्यो अ॑ग्न
उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस् त॑ आति॒थ्यम् आ॑नु॒षग् (=अनुक्रमेण) जुजो॑षत् ॥

11 महो रुजामि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हो (=महद्राक्षसान्) रु॑जामि (=भनज्मि) ब॒न्धुता॒(~बन्धुतया)
वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्वि॑याय ।
त्वन् नो॑ अ॒स्य वच॑सश् चिकिद्धि॒
होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः (=दान्तमनाः)

12 अस्वप्नजस्तरणयः सुशेवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्व॑प्नजस् त॒रण॑यस् सु॒शेवा॒ (=सुमुखाः)
अत॑न्द्रासो ऽवृ॒का(=अहिंसका) अश्र॑मिष्ठाः ।
ते (रश्मयः) पा॒यव॑स् स॒ध्रिय॑ञ्चो (=सङ्गताः)
नि॒षद्या(=उपविश्य)ऽग्ने॒ तव॑ नः पान्त्व् अमूर (=अमर्त्य)

13 ये पायवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)

ये पा॒यवो॑ मामते॒यन् ते॑ अग्ने॒
पश्य॑न्तो अ॒न्धन् दु॑रि॒ताद् अर॑क्षन् ।
र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒
दिप्स॑न्त॒ (दम्भितुकामाः) इद् रि॒पवो॒ ना ह॑ दे॒भुः (=परिभवन्ति)

14 त्वया वयम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया॑ व॒यꣳ स॑ध॒न्य॑स् त्वोता॒स् (त्वया +अविताः=रक्षिताः)
तव॒ प्रणी॑त्याऽश्याम॒ वाजान्॑ (=अन्नानि)
उ॒भा (पाप)शꣳसा॑ (शत्रू) सूदय सत्यताते
ऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण (=अह्रीः)

15 अया ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒या (=अनया) ते॑ अग्ने स॒मिधा॑ विधेम॒
प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय (=गृहाण)
दहा॒ ऽशसो॑ (=अशंसो) र॒क्षसः॑ पा॒ह्य॑स्मान्
द्रु॒हो नि॒दो (=निन्दकात्) मि॑त्रमहो (=मित्रपूज्य!) अव॒द्यात्(=परिवादात्)