००२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यो मर्त्येषु’ इति विंशत्यृचं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । “यो मर्त्येषु ’ इत्यनुक्रमणिका । अस्य सूक्तस्य प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्त एव विनियोग उक्तः ॥

Jamison Brereton

2 (298)
Agni
Vāmadeva Gautama
20 verses: triṣṭubh
This hymn shares a number of features, including phraseology, with the previous one: like IV.1 it begins with the installation of Agni as the mediator of the sacri ficial exchange between men and gods, and it contains a brief, Indra-less account of the Vala myth (vss. 15–17), with the Aṅgirases explicitly compared to the poets of today besieging the treasure-holding pen of the sacrifice. However, the first few verses of the hymn (vss. 2–4) enlarge on Agni’s role as messenger announced in verse 1. The hymn also contains an elaborate treatment (vss. 6–10, 13–14) of the various ritual services rendered to Agni by the sacrificers, and Agni is urged to dis tinguish between those who do such service and other mortals (esp. vss. 11–12). The final two verses (19–20) summarize the fire-worship that has just been performed by the sacrificers, both actions (“we have performed,” vs. 19) and words (“we have spoken,” vs. 20), a common hymn-ending device. Preceding them is a mysterious verse (18), whose position suggests that it closes the Vala myth, but whose content seems at least superficially unconnected.

Jamison Brereton Notes

Agni

01 यो मर्त्येष्वमृत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ म᳓र्तियेषु अमृ᳓त ऋता᳓वा
देवो᳓ देवे᳓षु अरति᳓र् निधा᳓यि
हो᳓ता य᳓जिष्ठो महिना᳓° शुच᳓ध्यै
हव्यइ᳓र् अग्नि᳓र् म᳓नुष ईरय᳓ध्यै

02 इह त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्वं᳓ सूनो सहसो नो अद्य᳓
जातो᳓ जाताँ᳓ उभ᳓याँ अन्त᳓र् अग्ने
दूत᳓ ईयसे युयुजान᳓ ऋष्व
ऋजुमुष्का᳓न् वृ᳓षणः शुक्रां᳐᳓श् च

03 अत्या वृधस्नू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓त्या वृधस्नू᳓ रो᳓हिता घृत᳓स्नू
ऋत᳓स्य मन्ये म᳓नसा ज᳓विष्ठा
अन्त᳓र् ईयसे अरुषा᳓ युजानो᳓
युष्मां᳓श् च देवा᳓न् वि᳓श आ᳓ च म᳓र्तान्

04 अर्यमणं वरुणम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यम᳓णं व᳓रुणम् मित्र᳓म् एषाम्
इ᳓न्द्रावि᳓ष्णू मरु᳓तो अश्वि᳓नोत᳓
सुअ᳓श्वो अग्ने सुर᳓थः सुरा᳓धा
ए᳓द् उ वह सुहवि᳓षे ज᳓नाय

05 गोमाँ अग्नेऽविमाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓माँ अग्ने अ᳓विमाँ अश्वी᳓ यज्ञो᳓
नृव᳓त्सखा स᳓दम् इ᳓द् अप्रमृष्यः᳓
इ᳓ळावाँ एषो᳓ असुर प्रजा᳓वान्
दीर्घो᳓ रयिः᳓ पृथुबुध्नः᳓ सभा᳓वान्

06 यस्त इध्मम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त इध्मं᳓ जभ᳓रत् सिष्विदानो᳓
मूर्धा᳓नं वा तत᳓पते तुवाया᳓
भु᳓वस् त᳓स्य स्व᳓तवाँः पायु᳓र् अग्ने
वि᳓श्वस्मात् सीम् अघायत᳓ उरुष्य

07 यस्ते भरादन्नियते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते भ᳓राद् अ᳓न्नियते चिद् अ᳓न्नं
निशि᳓षन् मन्द्र᳓म् अ᳓तिथिम् उदी᳓रत्
आ᳓ देवयु᳓र् इन᳓धते दुरोणे᳓
त᳓स्मिन् रयि᳓र् ध्रुवो᳓ अस्तु दा᳐᳓स्वान्

08 यस्त्वा दोषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा दोषा᳓ य᳓ उष᳓सि प्रशं᳓सात्
प्रियं᳓ वा त्वा कृण᳓वते हवि᳓ष्मान्
अ᳓श्वो न᳓ स्वे᳓ द᳓म आ᳓ हेमिया᳓वान्
त᳓म् अं᳓हसः पीपरो दाशुवां᳓सम्

09 यस्तुभ्यमग्ने अमृताय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् तु᳓भ्यम् अग्ने अमृ᳓ताय दा᳓शद्
दु᳓वस् तुवे᳓ कृण᳓वते यत᳓स्रुक्
न᳓ स᳓ राया᳓ शशमानो᳓ वि᳓ योषन्
नइ᳓नम् अं᳓हः प᳓रि वरद् अघायोः᳓

10 यस्य त्वमग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य त्व᳓म् अग्ने अध्वरं᳓ जु᳓जोषो
देवो᳓ म᳓र्तस्य सु᳓धितं र᳓राणः
प्रीते᳓द् असद् धो᳓तरा सा᳓ यविष्ठ
अ᳓साम य᳓स्य विधतो᳓ वृधा᳓सः

11 चित्तिमचित्तिं चिनवद्वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चि᳓त्तिम् अ᳓चित्तिं चिनवद् वि᳓ विद्वा᳓न्
पृष्ठे᳓व वीता᳓ वृजिना᳓ च म᳓र्तान्
राये᳓ च नः सुअपत्या᳓य देव
दि᳓तिं च रा᳓स्व अ᳓दितिम् उरुष्य

12 कविं शशासुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कविं᳓ शशासुः कव᳓यो अ᳓दब्धा
निधार᳓यन्तो दु᳓रियासु आयोः᳓
अ᳓तस् तुवं᳓ दृ᳓शियाँ अग्न एता᳓न्
पड्भिः᳓ पश्येर् अ᳓द्भुताँ अर्य᳓ ए᳓वैः

13 त्वमग्ने वाघते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् अग्ने वाघ᳓ते सुप्र᳓णीतिः
सुत᳓सोमाय विधते᳓ यविष्ठ
र᳓त्नम् भर शशमाना᳓य घृष्वे
पृथु᳓ श्चन्द्र᳓म् अ᳓वसे चर्षणिप्राः᳓

14 अधा ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा ह य᳓द् वय᳓म् अग्ने तुवाया᳓
पड्भि᳓र् ह᳓स्तेभिश् चकृमा᳓ तनू᳓भिः
र᳓थं न᳓ क्र᳓न्तो अ᳓पसा भुरि᳓जोर्
ऋतं᳓ येमुः सुधि᳓य आशुषाणाः᳓

15 अधा मातुरुषसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा मातु᳓र् उष᳓सः सप्त᳓ वि᳓प्रा
जा᳓येमहि प्रथमा᳓ वेध᳓सो नॄ᳓न्
दिव᳓स् पुत्रा᳓ अ᳓ङ्गिरसो भवेम
अ᳓द्रिं रुजेम धनि᳓नं शुच᳓न्तः

16 अधा यथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा य᳓था नः पित᳓रः प᳓रासः
प्रत्ना᳓सो अग्न ऋत᳓म् आशुषाणाः᳓
शु᳓ची᳓द् अयन् दी᳓धितिम् उक्थशा᳓सः
क्षा᳓मा भिन्द᳓न्तो अरुणी᳓र् अ᳓प व्रन्

17 सुकर्माणः सुरुचो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुक᳓र्माणः सुरु᳓चो देवय᳓न्तो
अ᳓यो न᳓ देवा᳓ ज᳓निमा ध᳓मन्तः
शुच᳓न्तो अग्निं᳓ ववृध᳓न्त इ᳓न्द्रम्
ऊर्वं᳓ ग᳓व्यम् परिष᳓दन्तो अग्मन्

18 आ यूथेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ यूथे᳓व क्षुम᳓ति पश्वो᳓ अख्यद्
देवा᳓नां य᳓ज् ज᳓निम अ᳓न्ति उग्र
म᳓र्तानां᳐ चिद् उर्व᳓शीर् अकृप्रन्
वृधे᳓ चिद् अर्य᳓ उ᳓परस्य आयोः᳓

19 अकर्म ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓कर्म ते सुअ᳓पसो अभूम
ऋत᳓म् अवस्रन्न् उष᳓सो विभातीः᳓
अ᳓नूनम् अग्नि᳓म् पुरुधा᳓ सुश्चन्द्रं᳓
देव᳓स्य म᳓र्मृजतश् चा᳓रु च᳓क्षुः

20 एता ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ ते अग्न उच᳓थानि वेधो
अ᳓वोचाम कव᳓ये ता᳓ जुषस्व
उ᳓च् छोचस्व कृणुहि᳓ व᳓स्यसो नो
महो᳓ रायः᳓ पुरुवार प्र᳓ यन्धि