००१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीः ॥

॥ अथ चतुर्थं मण्डलम् ॥

वामदेव्ये चतुर्थे मण्डले पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके दश सूक्तानि । तेषु ’ त्वां ह्यग्ने सदमित्’ इति विंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका- त्वां ह्यग्ने विंशतिरष्ट्यतिजगतीधृतय आद्या उपाद्याश्चतस्रो वारुण्यश्च वा ’ इति । मन्त्रद्रष्टा वामदेव ऋषिः । प्रथमा चतुःषष्ट्यक्षराष्टिः द्वितीया द्विपञ्चाशदक्षरातिजगती तृतीया द्विसप्तत्यक्षरा धृतिश्चतुर्थ्याद्या अनादेशपरिभाषया सप्तदश त्रिष्टुभः। कृत्स्नस्य सूक्तस्य “ मण्डलादिष्वाग्नेयम्’ इति परिभाषयाग्निर्देवता द्विद्याद्याश्चतस्रो वरुणदेवत्या वा । सूक्तविनियोगो लैङ्गिकः । आद्या अध्यायोपाकरणे मण्डलादिहोमे विनियुक्ता ॥

Jamison Brereton

1 (297)
Agni
Vāmadeva Gautama
20 verses: triṣṭubh, except aṣṭi 1, atijagatī 2, dhrti 3 ̥
This long and complex hymn contains an important account of the Vala myth: the opening of the cave containing the imprisoned cows and their release. Although the

hero of this myth is, of course, ordinarily Indra, he does not appear in the hymn, even in disguised fashion. Instead, the troop that usually aids him in this exploit, the Aṅgirases, receive all the credit, though they are not mentioned by name. The absence of Indra can presumably be ascribed to the fact that this is a hymn to Agni; the larger question is why the Vala myth is appropriate to an Agni hymn. Here the answer must be the connection of both gods with the dawn: the ruddy Vala cows are regularly identified as the dawns, and the ritual fire is kindled at dawn. Indeed the Vala myth in this hymn is introduced by a reference to Agni’s primordial birth (vs. 11), and the (unnamed) Aṅgirases are identified as his begetters (vs. 12): perhaps they free the embryonic Agni enclosed “in the nest of the bull” (vss. 11–12) as they do the Vala cows. We have seen the connection between the birth of the ritual fire and the Vala myth elsewhere, for example, in III.31, an Indra hymn, where it was also mediated by dawn.
The Vala myth is embedded within verses more conventionally devoted to Agni. The first five verses address Agni directly. He is first reminded of his original instal lation by the gods and their purpose in so doing (vs. 1), and in the next four verses Agni is urged to use his closeness to Varuṇa in order to intercede for us mortals with that god. The next four verses praise Agni in the 3rd person, concentrating on his present state. Verses 10–12 form the transition to the Vala myth; in fact verse 10 might seem to go naturally with 6–9, but, with its reference to the treasure of the gods, it forms a ring with verse 18, which closes the Vala section. The heart of the Vala narrative consists of verses 13–17. The final two verses (19–20) provide a summarizing praise of Agni.

Jamison Brereton Notes

Agni I do not understand the emphasis on Varuṇa in the early parts of the hymn (vss. 2-5; see also 18d), since the Vala myth and the unnamed Aṅgirases in the later parts of the hymn have no obvious conceptual connection with Varuṇa and the Ādityas (see also Aditi in 20a).

01 त्वां ह्यग्ने - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

तुवां᳓ हि᳓ अग्ने स᳓दम् इ᳓त् समन्य᳓वो
देवा᳓सो देव᳓म् अरतिं᳓ निएरिर᳓
इ᳓ति क्र᳓त्वा निएरिरे᳓
अ᳓मर्तियं यजत म᳓र्तियेषु आ᳓
देव᳓म् आ᳓देवं जनत प्र᳓चेतसं
वि᳓श्वम् आ᳓देवं जनत प्र᳓चेतसम्

02 स भ्रातरम् - अतिजगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ भ्रा᳓तरं व᳓रुणम् अग्न आ᳓ ववृत्स्व
देवाँ᳓ अ᳓छा सुमती᳓ यज्ञ᳓वनसं
ज्य᳓यिष्ठं+ यज्ञ᳓वनसम्
ऋता᳓वानम् आदित्यं᳓ चर्षणीधृ᳓तं
रा᳓जानं चर्षणीधृ᳓तम्

03 सखे सखायमभ्या - धृतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓खे स᳓खायम् अभि᳓ आ᳓ ववृत्सुव
आशुं᳓ न᳓ चक्रं᳓ र᳓थियेव रं᳓हिया
अस्म᳓भ्यं दस्म रं᳓हिया
अ᳓ग्ने मॄळीकं᳓+ व᳓रुणे स᳓चा विदो
मरु᳓त्सु विश्व᳓भानुषु
तोका᳓य तुजे᳓ शुशुचान शं᳓ कृधि
अस्म᳓भ्यं दस्म शं᳓ कृधि

04 त्वं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

05 स त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

06 अस्य श्रेष्टा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य᳓ श्र᳓यिष्ठा+ सुभ᳓गस्य संदृ᳓ग्
देव᳓स्य चित्र᳓तमा म᳓र्तियेषु
शु᳓चि घृतं᳓ न᳓ तप्त᳓म् अ᳓घ्नियाया
स्पार्हा᳓ देव᳓स्य मंह᳓नेव धेनोः᳓

07 त्रिरस्य ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् अस्य ता᳓ परमा᳓ सन्ति सत्या᳓
स्पार्हा᳓ देव᳓स्य ज᳓निमानि अग्नेः᳓
अनन्ते᳓ अन्तः᳓ प᳓रिवीत आ᳓गाच्
छु᳓चिः शुक्रो᳓ अरियो᳓ रो᳓रुचानः

08 स दूतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ दूतो᳓ वि᳓श्वे᳓द् अभि᳓ वष्टि स᳓द्मा
हो᳓ता हि᳓रण्यरथो रं᳓सुजिह्वः
रोहि᳓दश्वो वपुषि᳓यो विभा᳓वा
स᳓दा रण्वः᳓ पितुम᳓तीव संस᳓त्

09 स चेतयन्मनुषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ चेतयन् म᳓नुषो यज्ञ᳓बन्धुः
प्र᳓ त᳓म् मह्या᳓ रशन᳓या नयन्ति
स᳓ क्षेति अस्य दु᳓रियासु सा᳓धन्
देवो᳓ म᳓र्तस्य सधनित्व᳓म् आप

10 स तू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ तू᳓ नो अग्नि᳓र् नयतु प्रजान᳓न्न्
अ᳓छा र᳓त्नं देव᳓भक्तं य᳓द् अस्य
धिया᳓ य᳓द् वि᳓श्वे अमृ᳓ता अ᳓कृण्वन्
दियउ᳓ष् पिता᳓ जनिता᳓ सत्य᳓म् उक्षन्

11 स जायत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ जायत प्रथमः᳓ पस्ति᳓यासु
महो᳓ बुध्ने᳓ र᳓जसो अस्य᳓ यो᳓नौ
अपा᳓द् अशीर्षा᳓ गुह᳓मानो अ᳓न्ता
आ᳓यो᳓युवानो वृषभ᳓स्य नीळे᳓

12 प्र शर्ध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ श᳓र्ध आर्त प्रथमं᳓ विपन्याँ᳓
ऋत᳓स्य यो᳓ना वृषभ᳓स्य नीळे᳓
स्पार्हो᳓ यु᳓वा वपुषि᳓यो विभा᳓वा
सप्त᳓ प्रिया᳓सो ऽजनयन्त वृ᳓ष्णे

13 अस्माकमत्र पितरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कम् अ᳓त्र पित᳓रो मनुष्या᳡
अभि᳓ प्र᳓ सेदुर् ऋत᳓म् आशुषाणाः᳓
अ᳓श्मव्रजाः सुदु᳓घा वव्रे᳓ अन्त᳓र्
उ᳓द् उस्रा᳓ आजन्न् उष᳓सो हुवानाः᳓

14 ते ममृड़्जत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ मर्मृजत ददृवां᳓सो अ᳓द्रिं
त᳓द् एषाम् अन्ये᳓ अभि᳓तो वि᳓ वोचन्
पश्व᳓यन्त्रासो अभि᳓ कार᳓म् अर्चन्
विद᳓न्त ज्यो᳓तिश् चकृप᳓न्त धीभिः᳓

15 ते गव्यता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ गव्यता᳓ म᳓नसा दृध्र᳓म् उब्धं᳓
गा᳐᳓ येमान᳓म् प᳓रि ष᳓न्तम् अ᳓द्रिम्
दॄळ्हं᳓+ न᳓रो व᳓चसा दइ᳓वियेन
व्रजं᳓ गो᳓मन्तम् उशि᳓जो वि᳓ वव्रुः

16 ते मन्वत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ मन्वत प्रथमं᳓ ना᳓म धेनो᳓स्
त्रिः᳓ सप्त᳓ मातुः᳓ परमा᳓णि विन्दन्
त᳓ज् जानती᳓र् अभि᳓ अनूषत व्रा᳓
आवि᳓र् भुवद् अरुणी᳓र् यश᳓सा गोः᳓

17 नेशत्तमो दुधितम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ने᳓शत् त᳓मो दु᳓धितं रो᳓चत द्यउ᳓र्
उ᳓द् देविया᳓ उष᳓सो भानु᳓र् अर्त
आ᳓ सू᳓रियो बृहत᳓स् तिष्ठद् अ᳓ज्राँ
ऋजु᳓ म᳓र्तेषु वृजिना᳓ च प᳓श्यन्

18 आदित्पश्चा बुबुधाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓द् इ᳓त् पश्चा᳓ बुबुधाना᳓ वि᳓ अख्यन्न्
आ᳓द् इ᳓द् र᳓त्नं धारयन्त द्यु᳓भक्तम्
वि᳓श्वे वि᳓श्वासु दु᳓रियासु देवा᳓
मि᳓त्र धिये᳓ वरुण सत्य᳓म् अस्तु

19 अच्छा वोचेय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा वोचेय शुशुचान᳓म् अग्निं᳓
हो᳓तारं विश्व᳓भरसं य᳓जिष्ठम्
शु᳓चि ऊ᳓धो अतृणन् न᳓ ग᳓वाम्
अ᳓न्धो न᳓ पूत᳓म् प᳓रिषिक्तम् अंशोः᳓

20 विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वेषा᳐म् अ᳓दितिर् यज्ञि᳓यानां
वि᳓श्वेषा᳐म् अ᳓तिथिर् मा᳓नुषाणाम्
अग्नि᳓र् देवा᳓नाम् अ᳓व आवृणानः᳓
सुमॄळीको᳓+ भवतु जात᳓वेदाः