०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इमा उ वाम्’ इत्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रणिका-‘इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्रसौम्यमैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्यः’ इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च – ‘ इमा उ वां भृमयो मन्यमाना इति तिस्रः’ (आश्व. श्रौ. ७.९ ) इति ॥

Jamison Brereton

62 (296)
Various Gods
Viśvāmitra Gāthina (1–15); Viśvāmitra or Jamadagni (16–18)
18 verses: triṣṭubh 1–3, gāyatrī 4–18, arranged in trcas ̥
This, the last hymn in the maṇḍala, consists of eighteen verses, which should put it out of sequence. However, it falls naturally into tr̥cas, and probably originally consisted of six three-verse hymns dedicated severally to Indra and Varuṇa (1–3), Br̥haspati (4–6), Pūṣan (7–9), Savitar (10–12), Soma (13–15), and Mitra and Varuṇa (16–18).
In general the tr̥cas are relatively straightforward, even banal, but the first verse of the first tr̥ca is rhetorically dense and striking in imagery. It seems to suggest that our hymns, though they appear to be frenetically active, have lost their effectiveness, and therefore Indra and Varuṇa have ceased to act on behalf of their humans praisers and worshipers. It may not be entirely fanciful to conjecture that the simple, even simplis
tic, style of the remaining tr̥cas is an attempt to replace the “whirlwinds” of verbal art (of which there is much in Maṇḍala III) with a meeker and less ostentatious style. The most notable feature of this hymn is the fact that the first verse of the fourth tr̥ca, dedicated to Savitar (vs. 10), is the famous “Gāyatrī mantra,” with which orthodox Hindus begin their morning worship even today. In the context of R̥gvedic poetry, it must be said that the contents and form of this verse are not particularly striking. As was just suggested, this may in fact be its point.

Jamison Brereton Notes

Various gods

01 इमा उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ उ वाम् भृम᳓यो म᳓न्यमाना
युवा᳓वते न᳓ तु᳓जिया अभूवन्
कु᳓व त्य᳓द् इन्द्रावरुणा य᳓शो वां
ये᳓न स्मा सि᳓नम् भ᳓रथः स᳓खिभ्यः

02 अयमु वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् उ वाम् पुरुत᳓मो रयीय᳓ञ्
छश्वत्तम᳓म् अ᳓वसे जोहवीति
सजो᳓षाव् इन्द्रावरुणा मरु᳓द्भिर्
दिवा᳓ पृथिव्या᳓ शृणुतं ह᳓वम् मे

03 अस्मे तदिन्द्रावरुणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ त᳓द् इन्द्रावरुणा व᳓सु ष्याद्
अस्मे᳓ रयि᳓र् मरुतः स᳓र्ववीरः
अस्मा᳓न् व᳓रूत्रीः शरणइ᳓र् अवन्तु
अस्मा᳓न् हो᳓त्रा भा᳓रती द᳓क्षिणाभिः

04 बृहस्पते जुषस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्पते जुष᳓स्व नो
हव्या᳓नि विश्वदेव्य+++(=सर्वदेवहित)+++ ।
रा᳓स्व र᳓त्नानि दाशु᳓षे

05 शुचिमकैड़्बृड़्हस्पतिमध्वरेषु नमस्यत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शु᳓चिम् अर्कै᳓र् बृ᳓हस्-प᳓तिम्
अध्वरे᳓षु नमस्यत
अ᳓-नाम्य्+++(←नम्)+++ ओ᳓ज आ᳓ चके+++(=आप्नवानि)+++ ॥

06 वृषभं चर्षणीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृषभं᳓ चर्षणीनां᳐᳓
विश्व᳓रूपम् अ᳓दाभियम्
बृ᳓हस्प᳓तिं व᳓रेणियम्

07 इयं ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इयं᳓ ते पूषन्न् आघृणे
सुष्टुति᳓र् देव न᳓व्यसी
अस्मा᳓भिस् तु᳓भ्य° शस्यते

08 तां जुषस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तां᳓ जुषस्व गि᳓रम् म᳓म
वाजय᳓न्तीम् अवा धि᳓यम्
वधूयु᳓र् इव यो᳓षणाम्

09 यो विश्वाभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ वि᳓श्वाभि᳓ विप᳓श्यति
भु᳓वना सं᳓ च प᳓श्यति
स᳓ नः पूषा᳓विता᳓ भुवत्

10 तत्सवितुर्वरेण्यं भर्गो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓त् सवितु᳓र् व᳓रेण्य᳓+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥
(परो᳓-रजसे ऽसा᳓वद् ओ᳓३म् ॥)

प्र᳓चो᳓द᳓या᳓त्-स्व᳓रः᳓

प्र᳓ + चु᳓द् + णि᳓च् उ᳓दा᳓त्तः᳓ + श᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त् + [ले᳓ट् → आ᳓ट् + ति᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त्]।

प्रा᳓नु᳓दा᳓त्त᳓त्वं᳓ ति᳓ङ᳓न्त᳓स्यो᳓दा᳓त्त᳓व᳓त्त्वा᳓त्। त᳓च्च᳓ य᳓त्का᳓र᳓स᳓द्भा᳓वा᳓त्।

11 देवस्य सवितुर्वयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

देव᳓स्य सवितु᳓र् वयं᳓
वाजय᳓न्तः+++(=वाज-कामाः)+++ पु᳓रं-ध्या+++(←धीः)+++ ।
भ᳓गस्य राति᳓म् ईमहे ॥

12 देवं नरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

देवं᳓ न᳓रः सविता᳓रं
वि᳓प्रा यज्ञइः᳓ सुवृक्ति᳓भिः
नमस्य᳓न्ति धिये᳓षिताः᳓

13 सोमो जिगाति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मो जिगाति गातु+++(=मार्ग)+++-वि᳓द्
देवा᳓नाम् एति निष्कृत᳓म् ।
ऋत᳓स्य यो᳓निम् आस᳓दम् ॥

14 सोमो अस्मभ्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मो अस्म᳓भ्यं द्विप᳓दे
च᳓तुष्पदे च पश᳓वे
अनमीवा᳓ इ᳓षस् करत्

15 अस्माकमायुर्वर्धयन्नभिमातीः सहमानः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कम् आ᳓यु° वर्ध᳓यन्न्
अभि᳓मातीः स᳓हमानः
सो᳓मः सध᳓स्थम् आ᳓सदत्

16 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो मित्रा-वरुणा
घृतै᳓र् ग᳓व्यूतिम्+++(=गो-व्रजं)+++ उक्षतम्+++(=आसिञ्चतम्)+++ ।
म᳓ध्वा र᳓जांसि सु-क्रतू ॥

17 उरुशंसा नमोवृधा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उरुशं᳓सा नमोवृ᳓धा
मह्ना᳓ द᳓क्षस्य राजथः
द्रा᳓घिष्ठाभिः शुचिव्रता

18 गृणाना जमदग्निना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गृणाना᳓ जम᳓दग्निना
यो᳓नाव् ऋत᳓स्य सीदतम्
पातं᳓ सो᳓मम् ऋतावृधा


  1. A Titan, even as Savitṛ is also called Asura in the RV ↩︎

  2. Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎