०६१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उषो वाजेन’ इति सप्तर्चमष्टमं सूक्तं वैश्वामित्रमुषोदेवताकम् । तथा चानुक्रान्तम्- उष उषस्यम्’ इति । प्रातरनुवाके उषस्ये क्रतावाश्विनशस्त्रे च त्रैष्टुभे छन्दस्येतस्य सूक्तस्य विनियोगः । सूत्रितं च- ‘उषो वाजेनेदमु त्यत्’ ( आश्व. श्रौ. ४. १४ ) इति ॥

Jamison Brereton

61 (295)
Dawn
Viśvāmitra Gāthina
7 verses: triṣṭubh
The only hymn dedicated to Dawn in Maṇḍala III, it combines the usual themes: the beauty of the young goddess, her relation to the morning ritual and the ritual fire, and her role as giver of rich goods because of the distribution of priestly gifts at the Morning Pressing. Note that halfway through the hymn (beginning with vs. 4), the direct 2nd-person address to Dawn changes to 3rd-person description. This change may mirror the development of the ritual: first the poet coaxes Dawn to appear, and when his pleas have been successful (the vocatives of the first verses are in part replaced by aorists and perfects of the immediate past), he turns his attention to the ritual her appearance has set in motion.

Jamison Brereton Notes

Dawn

01 उषो वाजेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षो वा᳓जेन वाजिनि प्र᳓चेता
स्तो᳓मं जुषस्व गृणतो᳓ मघोनि
पुराणी᳓ देवि युवतिः᳓ पु᳓रंधिर्
अ᳓नु व्रतं᳓ चरसि विश्ववारे

02 उषो देव्यमर्त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षो देवि अ᳓मर्तिया वि᳓ भाहि
चन्द्र᳓रथा सूनृ᳓ता ईर᳓यन्ती
आ᳓ त्वा वहन्तु सुय᳓मासो अ᳓श्वा
हि᳓रण्यवर्णाम् पृथुपा᳓जसो ये᳓

03 उषः प्रतीची - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓षः प्रतीची᳓ भु᳓वनानि वि᳓श्वा
ऊर्ध्वा᳓ तिष्ठसि अमृ᳓तस्य केतुः᳓
समान᳓म् अ᳓र्थं चरणीय᳓माना
चक्र᳓म् इव नव्यसि आ᳓ ववृत्स्व

04 अव स्यूमेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व स्यू᳓मेव चिन्वती᳓ मघो᳓नी
उषा᳓ याति · स्व᳓सरस्य प᳓त्नी
सु᳓वर् ज᳓नन्ती सुभ᳓गा सुदं᳓सा
आ᳓न्ताद् दिवः᳓ पप्रथ आ᳓ पृथिव्याः᳓

05 अच्छा वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा वो देवी᳓म् उष᳓सं विभाती᳓म्
प्र᳓ वो भरध्वं न᳓मसा सुवृक्ति᳓म्
ऊर्ध्व᳓म् मधुधा᳓ दिवि᳓ पा᳓जो अश्रेत्
प्र᳓ रोचना᳓ रुरुचे रण्व᳓संदृक्

06 ऋतावरी दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वरी दिवो᳓ अर्कइ᳓र् अबोधि
आ᳓ रेव᳓ती रो᳓दसी चित्र᳓म् अस्थात्
आयती᳓म् अग्न उष᳓सं विभातीं᳓
वाम᳓म् एषि द्र᳓विणम् भि᳓क्षमाणः

07 ऋतस्य बुध्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓स्य बुध्न᳓ उष᳓साम् इषण्य᳓न्
वृ᳓षा मही᳓ रो᳓दसी आ᳓ विवेश
मही᳓ मित्र᳓स्य व᳓रुणस्य माया᳓
चन्द्रे᳓व भानुं᳓ वि᳓ दधे पुरुत्रा᳓