०६०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इहेह वः’ इति सप्तर्चं सप्तमं सूक्तं वैश्वामित्रं जागतमृभुदेवताकम् । अन्त्यस्तृच इन्द्रदेवताकश्च । तथा चानुक्रान्तम् – इहेह वः सप्तार्भवं जागतं तृचोऽन्त्य ऐन्द्रश्च ’ इति । सूक्तविनियोगो लैङ्गिकः । आद्याश्चतस्रः पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयाः । सूत्रितं च – ‘ इहेह व इति चतस्रः ’ ( आश्व. श्रौ. ७. ५ ) इति ॥

Jamison Brereton

60 (294)
R̥bhus and Indra
Viśvāmitra Gāthina
7 verses: jagatī
The hymn announces that the present priests have recovered the skills of the R̥bhus by which, although born as human “children of Manu” (vs. 3), they attained divin ity (vs. 2), immortality (vs. 3), and, like the gods, a share of the sacrifice (vs. 1). The “form” that the R̥bhus adopt in verse 1 may be the divine form they have earned. In verses 4–6 the poet turns to Indra and asks him to come to the soma-pressing along with the R̥bhus, now fully divine, and to drink the soma in the company of the R̥bhus. Because Indra and the R̥bhus are traveling by chariot, the poet deploys the imagery of prizewinning racehorses throughout these last verses. He even calls the R̥bhus themselves “prizewinners” in verse 7, though this metaphor is anticipated by vā́javant in verses 5 and 6. “Vāja” is the name of one of the R̥bhus, so on one level this means that Vāja is in the company of the other R̥bhus, but it also means that the R̥bhus, since they ride in Indra’s chariot, are or will be accompanied by the prize of victory.

01 इहेह वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इहे᳓ह वो म᳓नसा बन्धु᳓ता नर
उशि᳓जो जग्मुर् अभि᳓ ता᳓नि वे᳓दसा
या᳓भिर् माया᳓भिः प्र᳓तिजूतिवर्पसः
सउ᳓धन्वना यज्ञि᳓यम् भाग᳓म् आनश᳓

02 याभिः शचीभिश्चमसाँ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓भिः श᳓चीभिश् चमसाँ᳓ अ᳓पिंशत
य᳓या धिया᳓ गा᳓म् अ᳓रिणीत च᳓र्मणः
ये᳓न ह᳓री म᳓नसा निर᳓तक्षत
ते᳓न देवत्व᳓म् ऋभवः स᳓म् आनश

03 इन्द्रस्य सख्यमृभवः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्य सख्य᳓म् ऋभ᳓वः स᳓म् आनशुर्
म᳓नोर् न᳓पातो अप᳓सो दधन्विरे
सौधन्वना᳓सो अमृतत्व᳓म् ए᳓रिरे
विष्ट्वी᳓ श᳓मीभिः सुकृ᳓तः सुकृत्य᳓या

04 इन्द्रेण याथ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रेण याथ सर᳓थं सुते᳓ स᳓चाँ
अ᳓थो व᳓शानाम् भवथा सह᳓ श्रिया᳓
न᳓ वः प्रतिमइ᳓ सुकृता᳓नि वाघतः
सउ᳓धन्वना ऋभवो वीरि᳓याणि च

05 इन्द्र ऋभुभिर्वाजवद्भिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र र्भु᳓भिर् वा᳓जवद्भिः स᳓मुक्षितं
सुतं᳓ सो᳓मम् आ᳓ वृषस्वा ग᳓भस्तियोः
धिये᳓षितो᳓ मघवन् दाशु᳓षो गृहे᳓
सौधन्वने᳓भिः सह᳓ मत्सुवा नृ᳓भिः

06 इन्द्र ऋभुमान्वाजवान्मत्स्वेह - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र र्भुमा᳓न् वा᳓जवान् मत्सुवेह᳓ नो
अस्मि᳓न् स᳓वने श᳓चिया पुरुष्टुत
इमा᳓नि तु᳓भ्यं स्व᳓सराणि येमिरे
व्रता᳓ देवा᳓नाम् म᳓नुषश् च ध᳓र्मभिः

07 इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र र्भु᳓भिर् वाजि᳓भिर् वाज᳓यन्न् इह᳓
स्तो᳓मं जरितु᳓र् उ᳓प याहि यज्ञि᳓यम्
शतं᳓ के᳓तेभिर् इषिरे᳓भिर् आय᳓वे
सह᳓स्रणीथो अध्वर᳓स्य हो᳓मनि