०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘धेनुः प्रत्नस्य ’ इति नवर्चं पञ्चमं सूक्तं वैश्वामित्रं त्रैष्टुभमाश्विनम् । तथा चानुक्रान्तं — ‘ धेनुर्नवाश्विनम्’ इति । प्रातरनुवाके आश्विनक्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । सूत्रितं च - ‘ धेनुः प्रत्नस्य क उ श्रवदिति सूक्ते’ ( आश्व. श्रौ. ४. १५) इति । व्यूळ्हे दशरात्रे द्वितीये छन्दोमे प्रउगशस्त्रेऽयमाश्विनश्चतुर्थस्तृचः । द्वितीयस्याग्निं वः’ इति खण्डे सूत्रितं ‘ धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा ण इन्द्रोप याहि विद्वान् ’ ( आश्व. श्रौ. ८.१०) इति ॥

Jamison Brereton

58 (292)
Aśvins
Viśvāmitra Gāthina
9 verses: triṣṭubh
The hymn begins on a note of mystery, since the identities of the milk-cow, the “age-old (semen),” and the son of the priestly gift are unclear. The latter half of verse 1 describes the early morning, and therefore our view is that the first half does as well. We take the cow as the Dawn, whose milk is light, or pos
sibly the hymn sung at dawn, and this milk arises from the semen (see III.31.10 for the ellipsis) that is the fire of Agni or the sun or, less likely, soma. Agni, the son of the dakṣiṇā, the priestly gift that may be actually or metaphorically a cow, is a “go-between,” either as a messenger who encourages the morning or as one who goes between heaven and earth. Intricacy then replaces mystery in the second verse. In 2c, asmát, “because of us” or “from us,” may be construed with “awaken” or perhaps secondarily with “away”—“We have put the poetic inspiration of the miser away (from us).” In 2d cakr̥ma “we have put” should be construed twice with two preverbs and, as Geldner has pointed out, ā́ “here” can be construed with the two verbs it stands between.
The remainder of the hymn is neither as mysterious nor as intricate as these opening verses. It becomes a plea for the Aśvins to appear at the early-morning soma-pressing, riding in their chariot, which is the sound of the hymns that carry the Aśvins to the sacrificial site.
In verse 6 Jahnāvī probably refers to the “wife of Jahnu,” who is the father or ancestor of Viśvāmitra according to the Brāhmaṇas, although others have taken it as the name of the clan of Jahnu (Geldner) or as a name of the Ganges (Pirart 2001: 91). If the former, perhaps the poet reminds the Aśvins of the wealth that was with his family in the past in his wish to renew this friendship with them and their support for him.

01 धेनुः प्रत्नस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धेनुः᳓ प्रत्न᳓स्य का᳓मियं दु᳓हाना
अन्तः᳓ पुत्र᳓श् चरति द᳓क्षिणायाः
आ᳓ द्योतनिं᳓ वहति शुभ्र᳓यामा
उष᳓स स्तो᳓मो अश्वि᳓नाव् अजीगः

02 सुयुग्वहन्ति प्रति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुयु᳓ग् वहन्ति प्र᳓ति वाम् ऋते᳓न
ऊर्ध्वा᳓ भवन्ति पित᳓रेव मे᳓धाः
ज᳓रेथाम् अस्म᳓द् वि᳓ पणे᳓र् मनीषां᳓
युवो᳓र् अ᳓वश् चकृमा᳓ यातम् अर्वा᳓क्

03 सुयुग्भिरश्वैः सुवृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुयु᳓ग्भिर् अ᳓श्वैः सुवृ᳓ता र᳓थेन
द᳓स्राव् इमं᳓ शृणुतं श्लो᳓कम् अ᳓द्रेः
कि᳓म् अङ्ग᳓ वाम् प्र᳓त्य् अ᳓वर्तिं ग᳓मिष्ठा
आहु᳓र् वि᳓प्रासो अश्विना पुराजाः᳓

04 आ मन्येथामा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मन्येथाम् आ᳓ गतं क᳓च् चिद् ए᳓वैर्
वि᳓श्वे ज᳓नासो अश्वि᳓ना हवन्ते
इमा᳓ हि᳓ वां गो᳓ऋजीका म᳓धूनि
प्र᳓ मित्रा᳓सो न᳓ ददु᳓र् उस्रो᳓ अ᳓ग्रे

05 तिरः पुरू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिरः᳓ पुरू᳓ चिद् अश्विना र᳓जांसि
आङ्गूषो᳓ वाम् मघवाना ज᳓नेषु
ए᳓ह᳓ यातम् पथि᳓भिर् देवया᳓नैर्
द᳓स्राव् इमे᳓ वां निध᳓यो म᳓धूनाम्

06 पुराणमोकः सख्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुराण᳓म् ओ᳓कः सखियं᳓ शिवं᳓ वां
युवो᳓र् नरा द्र᳓विणं जह्ना᳓वियाम्
पु᳓नः कृण्वानाः᳓ सखिया᳓ शिवा᳓नि
म᳓ध्वा मदेम सह᳓ नू᳓ समानाः᳓

07 अश्विना वायुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्विना वायु᳓ना युवं᳓ सुदक्षा
नियु᳓द्भिष् च सजो᳓षसा युवाना
ना᳓सत्या तिरो᳓अह्नियं जुषाणा᳓
सो᳓मम् पिबतम् अस्रि᳓धा सुदानू

08 अश्विना परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्विना प᳓रि वाम् इ᳓षः पुरूची᳓र्
ईयु᳓र् गीर्भि᳓र् य᳓तमाना अ᳓मृध्राः
र᳓थो ह वाम् ऋतजा᳓ अ᳓द्रिजूतः
प᳓रि द्या᳓वापृथिवी᳓ याति सद्यः᳓

09 अश्विना मधुषुत्तमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्विना मधुषु᳓त्तमो युवा᳓कुः
सो᳓मस् त᳓म् पातम् आ᳓ गतं दुरोणे᳓
र᳓थो ह वाम् भू᳓रि व᳓र्पः क᳓रिक्रत्
सुता᳓वतो निष्कृत᳓म् आ᳓गमिष्ठः