०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र मे विविक्वान्’ इति षडृचं चतुर्थं सूक्तम् । विश्वामित्र ऋषिः । त्रिष्टुप् छन्दः । विश्वेदेवाः देवता । अत्रानुक्रमणिका- प्र मे षट् ’ इति । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

57 (291)
All Gods
Viśvāmitra Gāthina
6 verses: triṣṭubh
This hymn depicts the beginning of the morning ritual, with the recitation of praise poetry, the yoking of the pressing stones, and the kindling of the fire. The poet puts himself at the center of this activity, opening the hymn with a vivid image depicting his own inspiration as an untethered cow producing abundantly.

Jamison Brereton Notes

All Gods

01 प्र मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम् ।
स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः ॥

02 इन्द्रः सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे ।
विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ॥

03 या जामयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् ।
अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥

04 अच्छा विवक्मि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।
इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥

05 या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।
तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥

06 या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥