०५५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उषसः पूर्वाः’ इति द्वाविंशत्यृचं द्वितीयं सूक्तं त्रैष्टुभम् । ‘उषसः’ इत्यनुक्रमणिका । प्रजापतेरार्षं वैश्वदेवं ‘ प्रजापतिर्हि वैश्वदेवं ह” इति पूर्वसूक्ते हिहशब्दप्रयोगात्। सूक्तविनियोगो लैङ्गिकः । अत्राद्योषस्या ततः परं नवर्चोऽग्न्यादिदेवतास्ततः परा अहोरात्रदेवताका ततश्चतस्रो रोदस्योः पञ्चदशी द्युनिशोर्वा षोडशी दिग्देवताका ततः षड़ृचो वर्षत इन्द्रस्य केचिदग्नेस्त्वष्टुश्चेति मन्यन्ते ॥

Jamison Brereton

55 (289)
All Gods
Prajāpati Vaiśvāmitra or Prajāpati Vācya
22 verses: triṣṭubh
The most obvious feature of this hymn is the refrain found in every verse: “great is the one and only lordship of the gods,” notable for its emphasis on unity (ékam “one and only” is the final word of each verse) and for the juxtaposition and implied identity of asura(tvám) “lord(ship)” and devā́nām “gods,” given that in later Vedic the Asuras and the Devas are locked in eternal enmity. This familiar Vedic mystery of simultaneous unity and diversity is further exempli
fied by the references to numerous gods (generally unnamed, but usually recog nizable), especially in the second part of the hymn, in the manner of many All God hymns.
However, the hymn has a more structured trajectory than most All God list hymns. The first part of the hymn treats the mystery of the birth of Agni; once Agni has been definitively born, Indra comes to the sacrifice as is usual. After three verses situating the action at a re-creation of the primordial early-morning sacrifice and introducing the poet (vss. 1–3), the hymn turns to a mystical description of fire dispersed in many places and hidden in the plants (4–5), and of its parents, the two kindling sticks (4–7), then of fire as it catches after the kindling (8–9) and sends its smoke and flames toward heaven (9–10). The kin dling of Agni then takes on both a cosmic and a ritual dimension, as Night and Dawn and then the Dawns alone are identified as the mother(s) of the infant Agni, reflecting, of course, the kindling of the ritual fire at daybreak (11–16). Soon after (17–18) Indra puts in an appearance, coming to the early-morning sacrifice.
Not all the referents are clear in these riddling verses, and in some verses several referents probably lurk beneath the enigmatic phraseology. For example, verse 17 serves as a transition verse between the fire-kindling verses and the appearance of Indra. The bull here could be Agni himself, or Soma (much of the vocabulary is544 III.55
somian), or a prefiguring of Indra. Commentators differ in their identifications, and those given in brackets here are sometimes provisional.

Jamison Brereton Notes

All Gods As noted in the published introduction, this hymn is notable for its refrain, “great is the one and only lordship of the gods” (mahád devā́nām asuratvám ékam), with its juxtaposition of devá- and ásura-.

01 उषसः पूर्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उष᳓सः पू᳓र्वा अ᳓ध य᳓द् विऊषु᳓र्
मह᳓द् वि᳓ जज्ञे अक्ष᳓रम् पदे᳓ गोः᳓
व्रता᳓ देवा᳓नाम् उ᳓प नु᳓ प्रभू᳓षन्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

02 मो षू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मो᳓ षू᳓ णो अ᳓त्र जुहुरन्त देवा᳓
मा᳓ पू᳓र्वे अग्ने पित᳓रः पदज्ञाः᳓
पुराणियोः᳓ स᳓द्मनोः केतु᳓र् अन्त᳓र्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

03 वि मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ मे पुरुत्रा᳓ पतयन्ति का᳓माः
श᳓मि अ᳓छा दीदिये पूर्विया᳓णि
स᳓मिद्धे अग्ना᳓व् ऋत᳓म् इ᳓द् वदेम
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

04 समानो राजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समानो᳓ रा᳓जा वि᳓भृतः पुरुत्रा᳓
श᳓ये शया᳓सु प्र᳓युतो व᳓ना᳓नु
अन्या᳓ वत्स᳓म् भ᳓रति क्षे᳓ति माता᳓
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

05 आक्षित्पूर्वास्वपरा अनूरुत्सद्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आक्षि᳓त् पू᳓र्वासु अ᳓परा अनूरु᳓त्
सद्यो᳓ जाता᳓सु त᳓रुणीषु अन्तः᳓
अन्त᳓र्वतीः सुवते अ᳓प्रवीता
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

06 शयुः परस्तादध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शयुः᳓ पर᳓स्ताद् अ᳓ध नु᳓ द्विमाता᳓
अबन्धन᳓श् चरति वत्स᳓ ए᳓कः
मित्र᳓स्य ता᳓ व᳓रुणस्य व्रता᳓नि
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

07 द्विमाता होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्विमाता᳓ हो᳓ता विद᳓थेषु सम्रा᳓ळ्
अ᳓नु अ᳓ग्रं च᳓रति क्षे᳓ति बुध्नः᳓
प्र᳓ र᳓ण्यानि रण्यवा᳓चो भरन्ते
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

08 शूरस्येव युध्यतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शू᳓रस्येव यु᳓ध्यतो अन्तम᳓स्य
प्रतीची᳓नं ददृशे वि᳓श्वम् आय᳓त्
अन्त᳓र् मति᳓श् चरति निष्षि᳓धं गो᳓र्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

09 नि वेवेति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ वेवेति पलितो᳓ दूत᳓ आसु
अन्त᳓र् महां᳓श् चरति रोचने᳓न
व᳓पूंषि बि᳓भ्रद् अभि᳓ नो वि᳓ चष्टे
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

10 विष्णुर्गोपाः परमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ष्णुर् गोपाः᳓ परम᳓म् पाति पा᳓थः
प्रिया᳓ धा᳓मानि अमृ᳓ता द᳓धानः
अग्नि᳓ष् टा᳓ वि᳓श्वा भु᳓वनानि वेद
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

11 नाना चक्राते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓ना चक्राते यमि᳓या व᳓पूंषि
त᳓योर् अन्य᳓द् रो᳓चते कृष्ण᳓म् अन्य᳓त्
श्या᳓वी च य᳓द् अ᳓रुषी च स्व᳓सारौ
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

12 माता च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

माता᳓ च य᳓त्र दुहिता᳓ च धेनू᳓
सबर्दु᳓घे धाप᳓येते समीची᳓
ऋत᳓स्य ते᳓ स᳓दसि ईळे अन्त᳓र्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

13 अन्यस्या वत्सम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्य᳓स्या वत्सं᳓ रिहती᳓ मिमाय
क᳓या भुवा᳓ नि᳓ दधे धेनु᳓र् ऊ᳓धः
ऋत᳓स्य सा᳓ प᳓यसापिन्वते᳓ळा
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

14 पद्या वस्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓द्या वस्ते पुरुरू᳓पा व᳓पूंषि
ऊर्ध्वा᳓ तस्थौ त्रिअ᳓विं रे᳓रिहाणा
ऋत᳓स्य स᳓द्म वि᳓ चरामि विद्वा᳓न्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

15 पदे इव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पदे᳓ इव नि᳓हिते दस्मे᳓ अन्त᳓स्
त᳓योर् अन्य᳓द् गुहियम् आवि᳓र् अन्य᳓त्
सध्रीचीना᳓ पथि᳓या सा᳓ वि᳓षूची
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

16 आ धेनवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ धेन᳓वो धुनयन्ताम् अ᳓शिश्वीः
सबर्दु᳓घाः शशया᳓ अ᳓प्रदुग्धाः
न᳓व्या-नव्या युवत᳓यो भ᳓वन्तीर्
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

17 यदन्यासु वृषभो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अन्या᳓सु वृषभो᳓ रो᳓रवीति
सो᳓ ऽन्य᳓स्मिन्° यूथे᳓ नि᳓ दधाति रे᳓तः
स᳓ हि᳓ क्ष᳓पावान् स᳓ भ᳓गः स᳓ रा᳓जा
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

18 वीरस्य नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वीर᳓स्य नु᳓ सुअ᳓श्वियं जनासः
प्र᳓ नु᳓ वोचाम विदु᳓र् अस्य देवाः᳓
षोळ्हा᳓ युक्ताः᳓ प᳓ञ्च-पञ्चा᳓ वहन्ति
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

19 देवस्त्वष्था सविता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देव᳓स् त्व᳓ष्टा सविता᳓ विश्व᳓रूपः
पुपो᳓ष प्रजाः᳓ पुरुधा᳓ जजान
इमा᳓ च वि᳓श्वा भु᳓वनानि अस्य
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

20 मही समैरच्चम्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मही᳓ स᳓म् ऐरच् चमु᳓वा समीची᳓
उभे᳓ ते᳓ अस्य व᳓सुना नि᳓ऋष्टे
शृण्वे᳓ वीरो᳓ विन्द᳓मानो व᳓सूनि
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

21 इमां च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां᳓ च नः पृथिवीं᳓ विश्व᳓धाया
उ᳓प क्षेति हित᳓मित्रो न᳓ रा᳓जा
पुरःस᳓दः शर्मस᳓दो न᳓ वीरा᳓
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्

22 निष्षिध्वरीस्तओषधीरुतापो रयिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

निष्षि᳓ध्वरीस् त ओ᳓षधीर् उता᳓पो
रयिं᳓ त इन्द्र पृथिवी᳓ बिभर्ति
स᳓खायस् ते वामभा᳓जः सियाम
मह᳓द् देवा᳓नाम् असुरत्व᳓म् ए᳓कम्