०५४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चमेऽनुवाके नव सूक्तानि । तत्र ‘इमं महे’ इति द्वाविंशत्यृचं प्रथमं सूक्तं त्रैष्टुभं वैश्वदेवं विश्वामित्रपुत्रस्य वाक्पुत्रस्य वा प्रजापतेरार्षम् । अत्रेयमनुक्रमणिका - इमं महे द्वयधिकोक्तगोत्रः प्रजापतिर्हि वैश्वदेवं ह ’ इति । अस्मिन् सूक्ते आद्याग्नेयी ततः पराः सप्तर्चो द्यावापृथिव्यास्ततः परा द्युदेवताका । दशमी द्यावापृथिव्यैकादशी सावित्री ततः परं ‘सुकृत्’ इति त्वाष्ट्री आर्भवी च ‘ विद्युद्रथाः’ इति मारुती सारस्वती च ततः परं तिस्रो विष्ण्विन्द्राग्निदेवताकाः ‘स्वदस्व’ इत्याग्नेयीति । एवं वैश्वदेवं सूक्तम्। सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयने राजन्यस्य ‘इमं महे ’ इति प्रतिपत् । ‘पञ्चम्यां पौर्णमास्याम्’ इत्यत्र सूत्रितम् - इमं महे विदथ्याय शूषम् ’ (आश्व, श्रौ. २. १७) इति ।।

Jamison Brereton

54 (288)
All Gods
Prajāpati Vaiśvāmitra or Prajāpati Vācya
22 verses: triṣṭubh
This first hymn to the All Gods in this maṇḍala is something of a hybrid, combining two standard approaches to All God hymns. On the one hand, the second half of the hymn (starting with vs. 11) treats these deities as a list, granting a verse each to a number of gods and mentioning their familiar characteristics. This part is relatively straightforward.
The first half, especially verses 2–9, is ostensibly devoted to Heaven and Earth, but, though it begins as a conventional praise of those paired deities, as often in All God hymns the divinity provides a point of departure for spec ulation on the nature of things and unanswered questions about cosmic mat ters; see especially the questions in verse 5, at the middle of this self-contained hymn-within-a-hymn. The emphasis on truth and reality and on the discovery of Heaven and Earth (for both themes see vss. 3–4), in combination with the uncer tain questions, suggests that the point is that we only gradually and imperfectly discover the real dimensions and nature of the cosmos. The style in this portion is enigmatic, intense, and rhetorically intricate, especially in the climactic verse 9, where Heaven as the divine begetter, and perhaps the single principle, and heaven as a place, the home of the gods to which we also aspire, seem to be referred to simultaneously. This double reference is aided by the ambiguity of the first verb in the verse, ádhy emi, which can mean either “I go upon” or “I study.” Verse 10 clearly closes off that part of the hymn and makes the transition to the second part and its list of favored gods.
The hymn begins with a verse to Agni and ends with a verse and a half to him, thus providing a larger ring around the two very different halves.

Jamison Brereton Notes

All Gods

01 इमं महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓म् महे᳓ विदथि᳓याय शूषं᳓
श᳓श्वत् कृ᳓त्व ई᳓डियाय प्र᳓ जभ्रुः
शृणो᳓तु नो द᳓मियेभिर् अ᳓नीकैः
शृणो᳓तु अग्नि᳓र् दिवियइ᳓र् अ᳓जस्रः

02 महि महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓हि महे᳓ दिवे᳓ अर्चा पृथिव्यइ᳓
का᳓मो म इछ᳓ञ् चरति प्रजान᳓न्
य᳓योर् ह स्तो᳓मे विद᳓थेषु देवाः᳓
सपर्य᳓वो माद᳓यन्ते स᳓चायोः᳓

03 युवोऋड़्तं रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युवो᳓र् ऋतं᳓ रोदसी सत्य᳓म् अस्तु
महे᳓ षु᳓ णः सुविता᳓य प्र᳓ भूतम्
इदं᳓ दिवे᳓ न᳓मो अग्ने पृथिव्यइ᳓
सपर्या᳓मि प्र᳓यसा या᳓मि र᳓त्नम्

04 उतो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उतो᳓ हि᳓ वाम् पूर्विया᳓ आविविद्र᳓
ऋ᳓तावरी रोदसी सत्यवा᳓चः
न᳓रश् चिद् वां समिथे᳓ शू᳓रसातौ
ववन्दिरे᳓ पृथिवि वे᳓विदानाः

05 को अद्धा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ अद्धा᳓ वेद क᳓ इह᳓ प्र᳓ वोचद्
देवाँ᳓ अ᳓छा पथि᳓या का᳓ स᳓म् एति
द᳓दृश्र एषाम् अवमा᳓ स᳓दांसि
प᳓रेषु या᳓ गु᳓हियेषु व्रते᳓षु

06 कविनृड़्चक्षा अभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कवि᳓र् नृच᳓क्षा अभि᳓ षीम् अचष्ट
ऋत᳓स्य यो᳓ना वि᳓घृते म᳓दन्ती
ना᳓ना चक्राते स᳓दनं य᳓था वेः᳓
समाने᳓न क्र᳓तुना संविदाने᳓

07 समान्या वियुते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समानिया᳓ वि᳓युते दूरे᳓अन्ते
ध्रुवे᳓ पदे᳓ तस्थतुर् जागरू᳓के
उत᳓ स्व᳓सारा युवती᳓ भ᳓वन्ती
आ᳓द् उ ब्रुवाते मिथुना᳓नि ना᳓म

08 विश्वेदेते जनिमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे᳓द् एते᳓ ज᳓निमा सं᳓ विविक्तो
महो᳓ देवा᳓न् बि᳓भ्रती न᳓ व्यथेते
ए᳓जद् ध्रुव᳓म् पत्यते वि᳓श्वम् ए᳓कं
च᳓रत् पतत्रि᳓ वि᳓षुणं वि᳓ जात᳓म्

09 सना पुराणमध्येम्यारान्महः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ना पुराण᳓म् अ᳓धि एमि आरा᳓न्
महः᳓ पितु᳓र् जनितु᳓र् जामि᳓ त᳓न् नः
देवा᳓सो य᳓त्र पनिता᳓र ए᳓वैर्
उरउ᳓ पथि᳓ वि᳓उते तस्थु᳓र् अन्तः᳓

10 इमं स्तोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ स्तो᳓मं रोदसी प्र᳓ ब्रवीमि
ऋदूद᳓राः शृणवन्न् अग्निजिह्वाः᳓
मित्रः᳓ सम्रा᳓जो व᳓रुणो यु᳓वान
आदित्या᳓सः कव᳓यः पप्रथानाः᳓

11 हिरण्यपाणिः सविता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हि᳓रण्यपाणिः सविता᳓ सुजिह्व᳓स्
त्रि᳓र् आ᳓ दिवो᳓ विद᳓थे+++(=यज्ञे)+++ प᳓त्यमानः+++(= पतित्वं कामयमानः)+++ ।
देवे᳓षु च सवितः श्लो᳓कम् अ᳓श्रेर्+++(=प्राप्नुयाः)+++
आ᳓द्+++(=अनन्तरं)+++ अस्म᳓भ्यम् आ᳓ सुव सर्व᳓-तातिम् ॥

12 सुकृत्सुपाणिः स्ववाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुकृ᳓त् सुपाणिः᳓ सुअ᳓वाँ ऋता᳓वा
देव᳓स् त्व᳓ष्टा अ᳓वसे ता᳓नि नो धात्
पूषण्व᳓न्त ऋभवो मादयध्वम्
ऊर्ध्व᳓ग्रावाणो अध्वर᳓म् अतष्ट

13 विद्युद्रथा मरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्यु᳓द्रथा मरु᳓त ऋष्टिम᳓न्तो
दिवो᳓ म᳓र्या ऋत᳓जाता अया᳓सः
स᳓रस्वती शृणवन् यज्ञि᳓यासो
धा᳓ता रयिं᳓ सह᳓वीरं तुरासः

14 विष्णुं स्तोमासः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ष्णुं स्तो᳓मासः पुरुदस्म᳓म् अर्का᳓
भ᳓गस्येव कारि᳓णो या᳓मनि ग्मन्
उरुक्रमः᳓ ककुहो᳓ य᳓स्य पूर्वी᳓र्
न᳓ मर्धन्ति युवत᳓यो ज᳓नित्रीः

15 इन्द्रो विश्वैर्वियैड़्थ्ः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो वि᳓श्वैर् वीरि᳓यैः प᳓त्यमान
उभे᳓ आ᳓ पप्रौ रो᳓दसी महित्वा᳓
पुरंदरो᳓ वृत्रहा᳓ धृष्णु᳓षेणः
संगृ᳓भ्या न आ᳓ भरा भू᳓रि पश्वः᳓

16 नासत्या मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ना᳓सत्या मे पित᳓रा बन्धुपृ᳓छा
सजाति᳓यम् अश्वि᳓नोश् चा᳓रु ना᳓म
युवं᳓ हि᳓ स्थो᳓ रयिदउ᳓ नो रयीणां᳓
दात्रं᳓ रक्षेथे अ᳓कवैर् अ᳓दब्धा

17 महत्तद्वः कवयश्चारु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह᳓त् त᳓द् वः कवयश् चा᳓रु ना᳓म
य᳓द् ध देवा भ᳓वथ वि᳓श्व इ᳓न्द्रे
स᳓ख र्भु᳓भिः पुरुहूत प्रिये᳓भिर्
इमां᳓ धि᳓यं सात᳓ये तक्षता नः

18 अर्यमा णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यमा᳓ णो अ᳓दितिर् यज्ञि᳓यासो
अ᳓दब्धानि व᳓रुणस्य व्रता᳓नि
युयो᳓त नो अनपत्या᳓नि ग᳓न्तोः
प्रजा᳓वान् नः पशुमाँ᳓ अस्तु गातुः᳓

19 देवानां दूतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓नां दूतः᳓ पुरुध᳓ प्र᳓सूतो
अ᳓नागान् नो वोचतु सर्व᳓ताता
शृणो᳓तु नः पृथिवी᳓ द्यउ᳓र् उता᳓पः
सू᳓र्यो न᳓क्षत्रैर् उरु᳓ अन्त᳓रिक्षम्

20 शृण्वन्तु नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शृण्व᳓न्तु नो वृ᳓षणः प᳓र्वतासो
ध्रुव᳓क्षेमास इ᳓ळया म᳓दन्तः
आदितियइ᳓र् नो अ᳓दितिः शृणोतु
य᳓छन्तु नो मरु᳓तः श᳓र्म भद्र᳓म्

21 सदा सुगः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓दा सुगः᳓ पितुमाँ᳓ अस्तु प᳓न्था
म᳓ध्वा देवा ओ᳓षधीः स᳓म् पिपृक्त
भ᳓गो मे अग्ने सखिये᳓ न᳓ मृध्या
उ᳓द् रायो᳓ अश्यां स᳓दनम् पुरुक्षोः᳓

22 स्वदस्व हव्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व᳓दस्व हव्या᳓ स᳓म् इ᳓षो दिदीहि
अस्मद्रि᳓अक् स᳓म् मिमीहि श्र᳓वांसि
वि᳓श्वाँ अग्ने पृत्सु᳓ ता᳓ञ् जेषि श᳓त्रून्
अ᳓हा वि᳓श्वा सुम᳓ना दीदिही नः