०५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ धानावन्तम् ’ इत्यष्टर्चं चतुर्दशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रेयमनुक्रमणिका-’ धानावन्तमष्टौ पूर्वार्धं गायत्रं षष्ठी जगती ’ इति । आदितश्चतस्रो गायत्र्यः तृतीये धानाः’ इति षष्ठी जगती शिष्टास्त्रिष्टुभः । सूक्तविनियोगो लिङ्गादवगन्तव्यः । प्रातःसवनीयपुरोडाशस्यानुवाक्या ‘ धानावन्तम् इत्याद्या । सूत्रितं च-’ धानावन्तं करम्भिणमिति प्रातःसवनेऽनुवाक्या’ (आश्व. श्रौ. ५.४) इति ॥

Jamison Brereton

52 (286)
Indra
Viśvāmitra Gāthina
8 verses: gāyatrī 1–4; triṣṭubh 5, 7–8; jagatī 6
This hymn is also an addition to the Indra collection. Entirely parallel to III.28 (a hymn to Agni), it concerns the offering of a sacrificial cake at each pressing of the soma sacrifice, with each pressing characterized by a different meter. The Morning Pressing is the subject of verses 1–4; the Midday Pressing (amply represented in other hymns of this cycle: see the introduction to III.51) merits only one verse (5), and the Third Pressing is likewise mentioned only once (vs. 6). The remaining two verses appear to have a more general application.

Jamison Brereton Notes

Indra

01 धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धाना᳓वन्तं करम्भि᳓णम्
अपूप᳓वन्तम् उक्थि᳓नम्
इ᳓न्द्र प्रात᳓र् जुषस्व नः

02 पुरोळाशं पचत्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोळा᳓शम् पचति᳓यं
जुष᳓स्वेन्द्रा᳓ गुरस्व च
तु᳓भ्यं हव्या᳓नि सिस्रते

03 पुरोळाशं च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोळा᳓शं च नो घ᳓सो
जोष᳓यासे गि᳓रश् च नः
वधूयु᳓र् इव यो᳓षणाम्

04 पुरोळाशं सनश्रुत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोळा᳓शं सनश्रुत
प्रातःसावे᳓ जुषस्व नः
इ᳓न्द्र क्र᳓तुर् हि᳓ ते बृह᳓न्

05 माध्यन्दिनस्य सवनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ध्यंदिनस्य स᳓वनस्य धानाः᳓
पुरोळा᳓शम् इन्द्र कृष्वेह᳓ चा᳓रुम्
प्र᳓ य᳓त् स्तोता᳓ जरिता᳓ तू᳓र्णिअर्थो
वृषाय᳓माण उ᳓प गीर्भि᳓र् ई᳓ट्टे

06 तृतीये धानाः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तृती᳓ये धानाः᳓ स᳓वने पुरुष्टुत
पुरोळा᳓शम् आ᳓हुतम् मामहस्व नः
ऋभुम᳓न्तं वा᳓जवन्तं तुवा कवे
प्र᳓यस्वन्त उ᳓प शिक्षेम धीति᳓भिः

07 पूषण्वते ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पूषण्व᳓ते ते चकृमा करम्भं᳓
ह᳓रिवते ह᳓रिअश्वाय धानाः᳓
अपूप᳓म् अद्धि स᳓गणो मरु᳓द्भिः
सो᳓मम् पिब वृत्रहा᳓ शूर विद्वा᳓न्

08 प्रति धाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति धाना᳓ भरत तू᳓यम् अस्मै
पुरोळा᳓शं वीर᳓तमाय नॄणा᳓म्+
दिवे᳓-दिवे सदृ᳓शीर् इन्द्र तु᳓भ्यं
व᳓र्धन्तु त्वा सोमपे᳓याय धृष्णो