०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ चर्षणीधृतम्’ इति द्वादशर्चं त्रयोदशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रानुक्रमणिका-‘चर्षणीधृतं द्वादशाद्यन्त्यौ तृचौ जागतगायत्रौ’ इति । आद्यस्तृचो जागतोऽन्त्यस्तृचो गायत्रः। शिष्टा ऋचस्त्रिष्टुभः। सूक्तविनियोगो लैङ्गिकः । उक्थे क्रतौ मैत्रावरुणशस्त्रेऽनुरूपतृचानन्तरमाद्यस्तृचः शंसनीयः । सूत्रितं च-चर्षणीधृतमस्तभ्नाद्द्यामसुर इति तृचौ’ (आश्व. श्रौ. ६. १) इति । विषुवति निष्केवल्ये ‘नृणामु त्वा’ इति तृचः । ‘ विषुवान्’ इति खण्डे सूत्रितं— नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः ’ (आश्व. श्रौ. ८. ६) इति । बृहस्पतिसवे अप्ययं तृचो निष्केवल्ये निविद्धानीयः । सूत्रितं च - नृणामु वेति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ५) इति । महाव्रतेऽपि निष्केवल्येऽयं तृचः । दशरात्रे चतुर्थेऽहनि मरुत्वतीये ‘इन्द्र मरुत्वः’ इति तिस्रः । षष्ठेऽहनि ‘षष्ठस्य ’ इति खण्डे सूत्रितम्— इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्’ (आश्व. श्रौ. ८. १) इति । बृहस्पतिसवेऽपि मरुत्वतीयशस्त्रे अयं तृचो निविद्धानीयः । सूत्रितं च— इन्द्र मरुत्व इह नृणामु त्वेति मंध्यंदिनः’ (आश्व. श्रौ. ९. ५) इति । आद्या मरुत्वतीयग्रहस्यानुवाक्या । सूत्रितं च— मरुत्वतीयेन ग्रहेण चरन्तीन्द्र मरुत्व इह पाहि सोमम् (आश्व. श्रौ. ५, १४ ) इति । तृतीये पर्याये होतुः शस्त्रे • इदं ह्यन्वोजसा ’ इति स्तोत्रियस्तृचः । सूत्रितं च - इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा ’ ( आश्व. श्रौ. ६. ४ ) इति ॥

Jamison Brereton

51 (285)
Indra
Viśvāmitra Gāthina
12 verses: jagatī 1–3, triṣṭubh 4–9, gāyatrī 10–12, arranged in trcas ̥
The hymn falls into four sets of tr̥cas, in three different meters. Since the hymn follows one of five verses, each tr̥ca should originally have been a single hymn, to conform to the normal patterns of arrangement within maṇḍalas. However, even if it did consist originally of four separate hymns, the evidence of larger ring composition discussed with regard to III.50 makes it likely that III.51 was an addition to the original Indra collection, which would once have ended with III.50.
The first two tr̥cas consist of standard tropes of praise for Indra, with an empha sis on the songs and singers that express this praise. There are no strong indications of unity within the tr̥cas. The third tr̥ca is devoted to Indra’s drinking of soma in company with the Maruts and is thus appropriate to the Midday Pressing, like several other Indra hymns in this maṇḍala (III.32, 35, 47, 50). The final tr̥ca is even more insistently focused on Indra’s soma-drinking.

Jamison Brereton Notes

Indra _________ 01-02 These two vss. have the same structure: pādas acd are just accusatives qualifying the acc. índram in b, and the b pādas are essentially the same, with nom. pl.

gíraḥ + a verb that governs the accusatives. Though vs. 3 breaks the syntax, Indra still appears first by name in pāda b.

01 चर्षणीधृतं मघवानमुक्थ्यट्मिन्द्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

चर्षणीधृ᳓तम् मघ᳓वानम् उक्थि᳓यम्
इ᳓न्द्रं गि᳓रो बृहती᳓र् अभ्य् अ᳡नूषत
वावृधान᳓म् पुरुहूतं᳓ सुवृक्ति᳓भिर्
अ᳓मर्तियं ज᳓रमाणं दिवे᳓-दिवे

02 शतक्रतुमर्णवं शाकिनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

शत᳓क्रतुम् अर्णवं᳓ शाकि᳓नं न᳓रं
गि᳓रो म इ᳓न्द्रम् उ᳓प यन्ति विश्व᳓तः
वाजस᳓निम् पूर्भि᳓दं तू᳓र्णिम् अप्तु᳓रं
धामसा᳓चम् अभिषा᳓चं सुवर्वि᳓दम्

03 आकरे वसोर्जरिता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आकरे᳓ व᳓सोर् जरिता᳓ पनस्यते
अनेह᳓स स्तु᳓भ इ᳓न्द्रो दुवस्यति
विव᳓स्वतः स᳓दन आ᳓ हि᳓ पिप्रिये᳓
सत्रासा᳓हम् अभिमातिह᳓नं स्तुहि

04 नृणामु त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नॄणा᳓म्+ उ त्वा नृ᳓तमं गीर्भि᳓र् उक्थइ᳓र्
अभि᳓ प्र᳓ वीर᳓म् अर्चता सबा᳓धः
सं᳓ स᳓हसे पुरुमायो᳓ जिहीते
न᳓मो अस्य प्रदि᳓व ए᳓क ईशे

05 पूर्विरस्य निष्षिधो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वी᳓र् अस्य निष्षि᳓धो म᳓र्तियेषु
पुरू᳓ व᳓सूनि पृथिवी᳓ बिभर्ति
इ᳓न्द्राय द्या᳓व ओ᳓षधीर् उता᳓पो
रयिं᳓ रक्षन्ति जीर᳓यो व᳓नानि

06 तुभ्यं ब्रह्माणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तु᳓भ्यम् ब्र᳓ह्माणि गि᳓र इन्द्र तु᳓भ्यं
सत्रा᳓ दधिरे हरिवो जुष᳓स्व
बोधि᳓ आपि᳓र् अ᳓वसो नू᳓तनस्य
स᳓खे वसो जरितृ᳓भ्यो व᳓यो धाः

07 इन्द्र मरुत्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र मरुत्व इह᳓ पाहि+++(=पिब)+++ सो᳓मं
य᳓था शार्याते᳓+++(←शर्याती राजा)+++ अ᳓पिबः सुत᳓स्य ।
त᳓व प्र᳓णीती+++(→त्या)+++ त᳓व शूर श᳓र्मन्न्+++(→णि)+++
आ᳓ विवासन्ति कव᳓यः सुयज्ञाः᳓ ॥

08 स वावशान - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ वावशान᳓ इह᳓ पाहि सो᳓मम्
मरु᳓द्भिर् इन्द्र स᳓खिभिः सुतं᳓ नः
जातं᳓ य᳓त् त्वा प᳓रि देवा᳓ अ᳓भूषन्
महे᳓ भ᳓राय पुरुहूत वि᳓श्वे

09 अप्तूर्ये मरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अप्तू᳓रिये मरुत आपि᳓र् एषो᳓
अ᳓मन्दन्न् इ᳓न्द्रम् अ᳓नु दा᳓तिवाराः
ते᳓भिः साक᳓म् पिबतु वृत्रखादः᳓
सुतं᳓ सो᳓मं दाशु᳓षः स्वे᳓ सध᳓स्थे

10 इदं ह्यन्वोजसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इदं᳓ हि᳓ अ᳓नु ओ᳓जसा
सुतं᳓ राधाना᳐म् पते
पि᳓बा तु᳓ अस्य᳓ गिर्वणः

11 यस्ते अनु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते अ᳓नु स्वधा᳓म् अ᳓सत्
सुते᳓ नि᳓ यछ तनु᳓वम्
स᳓ त्वा ममत्तु सोमिय᳓म्

12 प्र ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते अश्नोतु कुक्षियोः᳓
प्र᳓ इन्द्र ब्र᳓ह्मणा शि᳓रः
प्र᳓ बाहू᳓ शूर रा᳓धसे