०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रः स्वाहा’ इति पञ्चर्चं द्वादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । दशरात्रे नवमेऽहनि मरुत्वतीयशस्त्रे इदं सूक्तम् । सूत्रितं च- तृतीयस्येन्द्रः स्वाहा गायत्साम’ (आश्व. श्रौ. ८. ७) इति ॥

Jamison Brereton

50 (284)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
This brief “journey” hymn signals its application to the Midday Pressing by the adjective “accompanied by the Maruts” ending the first half-verse; the usual men tion of Indra’s horses in journey hymns is also found. In addition to the refrain (vs. 5), verse 4 is also a repetition, of the near final verse of the first Indra hymn in this maṇḍala (III.30.20). Since III.50 is the final hymn in the regular sequence of Indra hymns in III (III.51 is a collection of tr̥cas in various meters; III.52–53 are similarly various), the double repetition seems to act as a ring-compositional device to mark the end of the Indra cycle.

Jamison Brereton Notes

Indra

01 इन्द्रः स्वाहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः स्वा᳓हा पिबतु य᳓स्य सो᳓म
आग᳓त्या तु᳓म्रो वृषभो᳓ मरु᳓त्वान्
ओ᳓रुव्य᳓चाः पृणताम् एभि᳓र् अ᳓न्नैर्
आ᳓स्य हवि᳓स् तनु᳓वः का᳓मम् ऋध्याः

02 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते सपर्यू᳓ जव᳓से युनज्मि
य᳓योर् अ᳓नु प्रदि᳓वः श्रुष्टि᳓म् आ᳓वः
इह᳓ त्वा धेयुर् ह᳓रयः सुशिप्र
पि᳓बा तु᳓ अस्य᳓ सु᳓षुतस्य चा᳓रोः

03 गोभिर्मिमिक्षुं दधिरे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गो᳓भिर् मिमिक्षुं᳓ दधिरे सुपार᳓म्
इ᳓न्द्रं ज्यइ᳓ष्ठ्याय धा᳓यसे गृणानाः᳓
मन्दानः᳓ सो᳓मम् पपिवाँ᳓ ऋजीषिन्
स᳓म् अस्म᳓भ्यम् पुरुधा᳓ गा᳓ इषण्य

04 इमं कामम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ का᳓मम् मन्दया गो᳓भिर् अ᳓श्वैश्
चन्द्र᳓वता रा᳓धसा पप्र᳓थश् च
सुवर्य᳓वो मति᳓भिस् तु᳓भ्य° वि᳓प्रा
इ᳓न्द्राय वा᳓हः कुशिका᳓सो अक्रन्

05 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनं᳓ हुवेम मघ᳓वानम् इ᳓न्द्रम्
अस्मि᳓न् भ᳓रे नृ᳓तमं वा᳓जसातौ
शृण्व᳓न्तम् उग्र᳓म् ऊत᳓ये सम᳓त्सु
घ्न᳓न्तं वृत्रा᳓णि संजि᳓तं ध᳓नानाम्