०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘शंसा महाम्’ इति पञ्चर्चमेकादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “शंसा महाम्’ इत्यनुक्रमणिका। समूळ्हे दशरात्रेऽष्टमेऽहनि मरुत्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- शंसा महां महश्चित्त्वमिन्द्र’ (आश्व.श्रौ. ८. ७) इति ।।

Jamison Brereton

49 (283)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
The first word of this hymn, śáṃsā “I will proclaim” (or possibly 2nd sg. imperative “proclaim!”), sets the tone for the rest, which consists entirely of descriptive glori fication (save for the refrain). There are no direct requests, though the praise of his victorious power and of his control of goods implicitly invites the god to exert the same for the singer and his community.

Jamison Brereton Notes

Indra

01 शंसा महामिन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥

02 यं नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥

03 सहावा पृत्सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥

04 धर्ता दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥

05 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥