०४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सद्यो ह’ इति पञ्चर्चं दशमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “सद्यो ह’ इत्यनुक्रमणिका । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘सद्यो ह जातः’ इत्येतत्सूक्तम् । सूत्रितं च- सद्यो ह जात एवा त्वामिन्द्रः’ (आश्व.श्रौ. ५. १६ ) इति । चातुर्विशिकेऽप्यहनि मैत्रावरुणशस्त्रेऽहरहःशस्यसंज्ञकमेतत्सूक्तम् । सूत्रितं च- सद्यो ह जात इत्यहरहःशस्यं मैत्रावरुणः ’ (आश्व. श्रौ. ७. ४) इति । अहर्गणे द्वितीयादिष्वहःसु माध्यंदिनसवनेऽस्मिन् शस्त्र एतत्सूक्तम् । “ अहरहःशस्यानीति होत्रका द्वितीयादिष्वेव ’ ( आश्व. श्रौ. ७. १) इति सूत्रितम् । साद्यस्क्रे एकाहे मरुत्वतीये शस्त्रे ‘सद्यो ह जातः ’ इत्याद्या सूक्तमुखीया । सूत्रितं च— सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपिबो जात इन्द्र’ ( आश्व.श्रौ. ९. ५) इति ॥

Jamison Brereton

48 (282)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
In this short hymn (four verses, without the refrain) we are given a tantalizing glimpse of Indra’s infancy and what appears to be his youthful rivalry with and outsmarting and overcoming of his father, here as sometimes elsewhere identified with Tvaṣṭar; in these activities he is seemingly abetted by his mother. In this primal scene she offers Indra soma just after his birth, and he, having drunk it, defeats his father and steals the soma. Unfortunately this brief sketch is the fullest and clearest expression of this mythological background. See also IV.18.

Jamison Brereton Notes

Indra

01 सद्यो ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ ।
सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥

02 यज्जायथास्तदहरस्य कामेंऽशोः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् ।
तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥

03 उपस्थाय मातरमन्नमैथ्थ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ ।
प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥

04 उग्रस्तुराषाळभिभूत्योजा यथावशम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः ।
त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥

05 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥