०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ मरुत्वान्’ इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । ‘मरुत्वान्’ इत्यनुक्रमणिका’ । दशरात्रे चतुर्थेऽहनि मरुत्वतीयशस्त्रे एतत् सूक्तं निविद्धानीयम्" । सूत्रितं च-’ श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्’ ( आश्व. श्रौ. ७. ११ ) इति । ऋषभनाम्न्येकाहेऽपि मरुत्वतीयशस्त्रे एतन्निविद्धानम् । सूत्रितं च- मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७) इति ॥

Jamison Brereton

47 (281)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
This ritually focused hymn is appropriate to the Midday Pressing, where Indra drinks soma in company with the Maruts. Both Indra and the Maruts are named in every verse, and all but the final verse contain an imperative of the verb “drink.” The Maruts’ role in strengthening Indra for his various exploits is treated in verses 3–4.

Jamison Brereton Notes

Indra

01 मरुत्वाँ इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒
पिबा॒ सोम॑म् अनु-ष्व॒धं(←स्वधा=अन्नम्) मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑(=मधुसदृशस्य) ऊ॒र्मिं
त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥

02 सजोषा इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्व
+अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥

03 उत ऋतुभिऋड़्तुपाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥

04 ये त्वाहिहत्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥

05 मरुत्वन्तं वृषभम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्
अक॑वारिं(=अकुत्सितारिं) दि॒व्यं शा॒सम् इन्द्र॑म् ।
वि॒श्वा॒-साह॒म् अव॑से॒ नूत॑नाय+
+उ॒ग्रं स॑हो॒-दाम् इ॒ह तं हु॑वेम ॥