०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ युध्मस्य ते ’ इति पञ्चर्चमष्टमं सूक्तं वैश्वामित्रमैन्द्रम् । ‘युध्मस्य’ इत्यनुक्रमणिका । दशरात्रे चतुर्थेऽहनि निष्केवल्ये ‘युध्मस्य ते’ इति सूक्तं निविद्धानम् । सूत्रितं च- कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्’ ( आश्व. श्रौ. ७.११ ) इति । ऋषभनाम्नि एकाहेऽपि निष्केवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च – युध्मस्य त इति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७ ) इति

Jamison Brereton

46 (280)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
Most of the hymn is devoted to generic praise of Indra, and especially of his immense proportions (see the nicely balanced rhetoric of the middle verse 3). The last verse and a half (4cd, 5) turn to the ritual situation, the early-morning soma-pressing for Indra.

Jamison Brereton Notes

Indra

01 युध्मस्य ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युध्म᳓स्य ते वृषभ᳓स्य स्वरा᳓ज
उग्र᳓स्य यू᳓न स्थ᳓विरस्य घृ᳓ष्वेः
अ᳓जूर्यतो वज्रि᳓णो वीरि᳓याणि
इ᳓न्द्र श्रुत᳓स्य महतो᳓ महा᳓नि

02 महाँ असि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महाँ᳓ असि महिष वृ᳓ष्णियेभिर्
धनस्पृ᳓द् उग्र स᳓हमानो अन्या᳓न्
ए᳓को वि᳓श्वस्य भु᳓वनस्य रा᳓जा
स᳓ योध᳓या च क्षय᳓या च ज᳓नान्

03 प्र मात्राभी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मा᳓त्राभी रिरिचे रो᳓चमानः
प्र᳓ देवे᳓भिर् विश्व᳓तो अ᳓प्रतीतः
प्र᳓ मज्म᳓ना दिव᳓ इ᳓न्द्रः पृथिव्याः᳓
प्रो᳓रो᳓र् महो᳓ अन्त᳓रिक्षाद् ऋजीषी᳓

04 उरुं गभीरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उरुं᳓ गभीरं᳓ जनु᳓षाभि᳓ उग्रं᳓
विश्व᳓व्यचसम् अवत᳓म् मतीना᳓म्
इ᳓न्द्रं सो᳓मासः प्रदि᳓वि सुता᳓सः
समुद्रं᳓ न᳓ स्रव᳓त आ᳓ विशन्ति

05 यं सोममिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ सो᳓मम् इन्द्र पृथिवी᳓दिया᳓वा
ग᳓र्भं न᳓ माता᳓ बिभृत᳓स् तुवाया᳓
तं᳓ ते हिन्वन्ति त᳓म् उ ते मृजन्ति
अध्वर्य᳓वो वृषभ पा᳓तवा᳓ उ