०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ मन्द्रैः’ इति पञ्चर्चं सप्तमं सूक्तं वैश्वामित्रं बार्हतमैन्द्रम् । ‘आ मन्द्रैः’ इत्यनुक्रमणिका । पूर्वसूक्ते ‘बार्हतं तु ’ इत्युक्तत्वादस्यापि बार्हतत्वम् । “ विशेष विनियोगस्तु यत्र श्रुत्या न सूत्रितः । स्मार्तं तत्र विजानीयादृग्विधानादिशास्त्रतः ’ ॥

Jamison Brereton

45 (279)
Indra
Viśvāmitra Gāthina
5 verses: br̥hatī
The hymn begins by inviting Indra to “drive here,” as is familiar from the previous “journey” hymns in this Indra cycle (e.g., III.41, 42, 43), but it soon turns to a series of striking and elaborate similes and metaphorical identifications glorifying Indra and his gifts. The middle verse (3) contains four separate similes and so, as often, represents the concentrated essence of the hymn.

Jamison Brereton Notes

Indra

01 आ मन्द्रैरिन्द्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मन्द्रै᳓र्+++(=र्मादयितृभिः)+++ इन्द्र ह᳓रिभिर् याहि᳓
मयू᳓र-रोमभिः ।
मा᳓ त्वा के᳓ चिन् नि᳓ यमन् विं᳓+++(=पक्षिणं)+++ न᳓ पाशि᳓नो᳓
ऽति ध᳓न्वेव+++(=मरुदेशम् इव)+++ ताँ᳓ इहि ॥

02 वृत्रखादो वलंरुजः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वृत्र-खादो᳓, वलं-रुजः᳓+++(=भेदकः)+++,
पुरां᳓+++(णां)+++ दर्मो᳓+++(=दारकः)+++, अपा᳓म् अजः᳓+++(=प्रेरकः)+++ ।
स्था᳓ता र᳓थस्य ह᳓र्योर् अभि-स्वर᳓+++(य् = प्रेरणे)+++
इ᳓न्द्रो दृळ्हा᳓+++(णां)+++ चिद् आ-रुजः᳓+++(=भञ्जकः)+++ ॥

03 गम्भीराँ उदधीँरिव - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

गम्भीराँ᳓ उदधीँ᳓र् इव
क्र᳓तुम् पुष्यसि गा᳓ इव
प्र᳓ सुगोपा᳓ य᳓वसं धेन᳓वो यथा
ह्रदं᳓ कुल्या᳓ इवाशत

04 आ नस्तुजम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नस् तु᳓जं रयि᳓म् भर
अं᳓शं न᳓ प्रतिजानते᳓
वृक्ष᳓म् पक्व᳓म् फ᳓लम् अङ्की᳓व धूनुहि
इ᳓न्द्र सम्पा᳓रणं व᳓सु

05 स्वयुरिन्द्र स्वराळसि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स्वयु᳓र् इन्द्र स्वरा᳓ळ् असि
स्म᳓द्दिष्टिः स्व᳓यशस्तरः
स᳓ वावृधान᳓ ओ᳓जसा पुरुष्टुत
भ᳓वा नः सुश्र᳓वस्तमः