०४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयं ते अस्तु’ इति पञ्चर्चं षष्ठं सूक्तं वैश्वामित्रं बार्हतमैन्द्रम् । अत्रानुक्रमणिका– ‘ अयं ते पञ्च बार्हतं तु ’ इति । महाव्रते बार्हत्यां तृचाशीताविदं सूक्तम् (ऐ. आ. ५. २. ४ )। षोडशिशस्त्रे ‘ अयं ते अस्तु हर्यतः’ इत्याद्यस्तृचो विनियुक्तः । सूत्रितं च– अयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ’ ( आश्व. श्रौ. ६. २ ) इति ।।

Jamison Brereton

44 (278)
Indra
Viśvāmitra Gāthina
5 verses: br̥hatī
The major trick of this short hymn is the extended pun between the words hári “gold-colored” (also used regularly for Indra’s “fallow bay” horses) and harya “enjoy,” a pun exploited elsewhere. (For a far more elaborate example, see X.96.) For the purposes of this hymn, we have rendered the former as “golden,” even in reference to the horses, and the latter as “gladden(ing),” in an attempt to sketch the pun in English. In the last verse the poet slyly turns the golden mace of verse 4 into silver, a move that would surely have caught the attention of the audience.

Jamison Brereton Notes

Indra On the extended pun in this hymn, see published introduction.

01 अयं ते - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ ते अस्तु हर्यतः᳓
सो᳓म आ᳓ ह᳓रिभिः सुतः᳓
जुषाण᳓ इन्द्र ह᳓रिभिर् न आ᳓ गहि
आ᳓ तिष्ठ ह᳓रितं र᳓थम्

02 हर्यन्नुषसमर्चयः सूर्यम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

हर्य᳓न्न् उष᳓सम् अर्चयः
सू᳓र्यं हर्य᳓न्न् अरोचयः
विद्वां᳓श् चिकित्वा᳓न् ह᳓रिअश्व वर्धस
इ᳓न्द्र वि᳓श्वा अभि᳓ श्रि᳓यः

03 द्यामिन्द्रो हरिधायसम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

द्या᳓म् इ᳓न्द्रो ह᳓रिधायसम्
पृथिवीं᳓ ह᳓रिवर्पसम्
अ᳓धारयद् धरि᳓तोर् भू᳓रि भो᳓जनं
य᳓योर् अन्त᳓र् ह᳓रिश् च᳓रत्

04 जज्ञानो हरितो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

जज्ञानो᳓ ह᳓रितो वृ᳓षा
वि᳓श्वम् आ᳓ भाति रोचन᳓म्
ह᳓रिअश्वो ह᳓रितं धत्त आ᳓युधम्
आ᳓ व᳓ज्रम् बाहुवो᳓र् ह᳓रिम्

05 इन्द्रो हर्यन्तमर्जुनम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो हर्य᳓न्तम् अ᳓र्जुनं
व᳓ज्रं शुक्रइ᳓र् अभी᳓वृतम्
अ᳓पावृणोद् ध᳓रिभिर् अ᳓द्रिभिः सुत᳓म्
उ᳓द् गा᳓ ह᳓रिभिर् आजत